________________
१११७०] प्रथमः प्रत्यक्षप्रस्ताव
५३९ किचिदित्थम्भावानवधारितं केनचित्सम्बद्धमिति शक्यमध्यवसातुम । तन्नोपचारतोऽपि तस्य तद्रूपत्वमिति कथमिन्द्रियसन्निहितादर्थाब्योमकुसुमस्येवोत्पत्तिः ? भवन्ती' चेयं कुतोऽवगन्तव्या ? न तावत् स्वत एव; अबोधरूपत्वात्। नान्यतोऽपि सुखादिसन्निकर्षात संयुक्तसमवायादुत्पन्नात; तन सुखादेरेव ग्रहणात् । नाप्यर्थसन्निकर्षात् ; संयोगादेरुपजातेन तेनाप्यर्थस्यैव चन्दनदहनादेः परिज्ञानात् । न चोभययोरेकज्ञानाविषयत्वे तत्तत्कार्यकारणभावो निर्णयविषयतां नेतुं पार्यते । ५ पार्यत एव तदुभयज्ञानजन्मना सङ्कलनेनेति चेत् । तस्य प्रत्यक्षत्वे तदिन्द्रियं वक्तव्यं यतस्तस्योत्पत्तिः ? मन एवेति चेत् ; कस्तस्यार्थेन सन्निकर्षः ? संयुक्तसंयोगादिरिति चेत् ; न; तस्य सन्निकर्षनियमं व्यवस्थापयता विश्वरूपेण प्रतिक्षेपात् । नयनादिकमेवेति चेत् ; न; तस्य सुखविषयत्वासम्भवात् , सुखादेर्घटादिवत् प्रतिपत्रन्तरप्रत्यक्षविषयत्वापत्तेश्च । तन्न तत्प्रत्यक्षम् । नाप्यनुमानम : लिङ्गाभावात् । तद्भावभावित्वं लिङ्गमिति चेत् ; न; तस्यापि १० सुखादिबहिरर्थयोरेकज्ञानाविषयत्वे दुरवगमत्वादित्युक्तत्वात् । न चैतदुपमानं शाब्दं वा सादृश्यशब्दानपेक्षणात । न चाप्रमाणतस्तदवगमः । तन्न तस्य तस्मादुत्पत्तिः, इत्ययुक्तं तव्यवच्छेदाय ज्ञानग्रहणम् । तन्नावयवशो विचार्यमाणमिदमविरुद्धम् । नापि समुदितम् ; असम्भवदोषात् । न हि परपरिकल्पितमस्वसंवेदनं ज्ञानं सम्भवति; "विमुख" इत्यादिनी तस्य [ निराकरणात् ] ।
अव्यापकत्वाच, अव्यापकं हीदं लक्षणं सुखादिप्रत्यक्षेण । तदपीन्द्रियार्थसग्निकर्पोत्पन्नं प्रत्यक्षत्वात् नीलादिप्रत्यक्षवत् , ततः कथमव्याप्तिरिति चेत् ? उच्यते-ततो यदि सुखादिरव्यतिरिक्तः, न तस्येन्द्रियसन्निकर्षः, तेदभावे तस्याप्यभावात् । 'तद्भावेऽपि न किञ्चित्तेन', तस्य प्रत्यक्षार्थत्वात् , तस्य च निष्पन्नत्वात् । व्यतिरिक्तश्चेत् ; न ; प्रमाणाभावात् । 'सुखादिस्तत्प्रत्यक्षात् व्यतिरिक्तः तद्विषंयत्वात् कलशादिवत्' इत्यनुमानं २० प्रमाणमिति चेत; न; 'अनुष्णो दहनो द्रव्यत्वात्तद्वत्' इत्यस्यापि प्रमाणत्वापत्तेः। पक्षस्योष्णत्वप्रत्यक्षेण बाधनाद्धेतोश्च कालातिपातापदिष्टत्वात् नेति चेत् ; प्रकृतस्यापि न भवेत् सुखादेस्तदव्यतिरेकस्यापि तत एवावभासनात् । तद्व्यतिरिक्तश्च ततः पूर्व यद्यननुभव एवास्ते ततोऽपि पूर्व तथैवास्त इति नित्य एवायमतः कथं चन्दनदहनादेरुत्पद्येत ? यदि पुनस्तदापि तस्यानुभवो न तर्हि तस्य तस्मादिन्द्रियसन्निहितादुत्पतिः सहैव तेनोत्पतेरिति कथं न लक्ष- २५ णस्याव्याप्तिः ?
तथा चक्षुर्ज्ञानेनापि, न हि चक्षुषोऽपि घटादिसन्निकर्षः प्रमाणाभावात् । चक्षुर्घटा. दिकं प्राप्तं प्रकाशयति बाह्येन्द्रियत्वात् त्वगादिवत् , 'इत्यमुमानमत्र प्रमाणमिति चेत् ; न;
भवति चेयं आ०,०,१०।२ प्रतिपस्यन्तर-आ०, ब०, प० । ३ श्लो. १९ । ४ सुखादिप्र. त्यक्षात् । ५ सन्निकर्षाभावे । इन्द्रियसन्निकर्षाभावे 'सुखादिप्रत्यक्षसद्भावेऽपि। ७ समिकर्षेण । प्रत्यक्षत एव । ९ "चक्षुःश्रोत्रे प्राप्यार्थ परिच्छिन्दाते बाह्येन्द्रियत्वास्वमिन्द्रियवत् ।"-न्यायवा० ता. पृ०७३ । न्यायकुमु० पृ० ७५ टि. २।