________________
न्यायविनिश्चयविवरणे
[ १११७० नित्यत्वोपपत्तेः । निरूपितञ्चैतत्' 'कारणस्य' इत्यादिना । नापीन्द्रियार्थयोः सन्निकर्षः ; प्रमाणाभावात् । व्यवधाने सत्यग्रहणं दृश्यते, तत्र यदि सन्निकर्षनिरपेक्षमेवेन्द्रियज्ञानं व्यवधानेऽपि स्यात् , न चैवम् , अतोऽस्ति सन्निकर्षस्तयोः यदभावाब्यवधाने सति नार्थज्ञान.
मैन्द्रियमित्यनुमानतस्तत्प्रतिपत्तेः कथं प्रमाणाभाव इति चेत् ? कोऽसौ सन्निकर्षो नाम यस्य ५ ततः प्रतिपत्तिः ? प्राप्तिविशेष इति चेत् ; तस्यापि प्राप्तिमतो व्यतिरेके तेन तयोस्तदपरस्तद्विशेषो वक्तव्यः ? तदभावे तत्सहायतया प्रत्यक्षज्ञानहेतुत्वानुपपत्तेः। अपरतद्विशेषस्यापि ततो व्यतिरेके तत एव पुनरपरस्तद्विशेषो वक्तव्य इत्यपर्यन्तास्तद्विशेषाः प्रसज्येरन् । न च तेषां प्रमाणत: प्रतिपत्तिः । अथ पर्यन्ते कश्चिदव्यतिरिक्त एव तद्विशेषो. भवति योग्यतारूपस्त
दयमदोष इति ; तन्न ; प्रथमत एव तदभ्युपगमप्रसङ्गात । प्रथमतस्तादृशस्य तद्विशेषस्य न १० प्रतिपत्तिरिति चेत् ; पश्चात् कुतः प्रतिपत्तिः ? प्रागुक्ताल्लिङ्गादेवेति चेत् ; न ; तस्य प्रागप्य
विशेषात् । भवतु तद्रूप एव प्रागपि तद्विशेष इति चेत् ; न तर्हि नयनघटयोः संयोगः श्रवणशब्दयोर्वा समवायो व्यतिरिक्तः, तदभावे च न तत्समुदायरूपसंयुक्तसमवायादिरपीति न युक्तं षोढात्वव्यावर्णनं सन्निकर्षस्य ।
योग्यतैव यदि प्राप्तिर्गोलकादेव तादृशात् ।
रूपज्ञप्तेर्वृथा चक्षरश्मीनां परिकल्पनम् ॥ १२१५ ॥ तत इन्द्रियेत्याधपि विरुध्यते ।
न वा विरुध्यताम् , तथापि ज्ञानमिति विशेष्यं पदं विरुध्यते; विनापि तेन ज्ञानस्यैव प्रतिपत्तेः, तदन्यस्येन्द्रियार्थसन्निकर्षादनुत्पत्तेः । सुखादिरपि तत एवोत्पद्यत इति चेत् ;
न; तस्यापि ज्ञानत्वात् । विषयपरिच्छित्तिरूपमेव ज्ञानम् "अर्थग्रहणं बुद्धिः" [न्यायभा० ३। २० २।४६ ] इति वचनात् । न च सुखादिस्तत्परिच्छित्तिरूपः, आहादादिरूपतयैव प्रति.
भासनादिति , चेत् ; न ; अज्ञानत्वे स्वतःप्रतिभासाभावप्रसङ्गात् । प्रतिभासोऽपि तस्य परत एव घटादिवत् , 'सुवादिः प्रतिभासते' इति प्रतिभाससामानाधिकरण्यं तु प्रतिभासाभेदोपचारादेव 'घटः प्रतिभासते' इतिवत् न वस्तुतः प्रतिभासरूपत्वादिति चेत्, किमिदानीं तस्य वस्तुसद्रूपम् ? आहादादित्वमिति चेत् ; न ; तस्य सामान्यरूपत्वात् । ७: तद्रूप एव सुखादिरपीति चेत् ; यदि मुख्यतः ; न तर्हि तस्य तत्सन्निकर्षादुत्पत्तिः
नित्यत्वात् । उपचारतश्चेत् ; कथं वस्तुतस्तस्य तद्रूपत्वम् ? उपचरितस्य वस्तुसत्वानुपपत्तेः । कुतश्चोपचारः १ सम्बन्धात् ; सम्बद्धो हि सुखादिराहादादित्वेन ताप्यतयोप. कल्प्यत इति चेत् ; न; स्वयमनिर्धारितासाधारणरूपत्वे सम्बन्धस्यैव दुरवगमत्वात् । न हि
श्लो० १०६ । “कारणस्थानं तेषां कार्यस्योपरमः कथम्' -ता. टि.। “न च म्यवहितार्थोपलब्धिरस्ति तस्मान प्राप्यकारीति।"-न्यायवा० पृ. ३५ । न्यायकुमु० पृ. २८ टि. १३ । पृ.७.टि०२ । 1 "इन्द्रियार्थसनिकर्षोत्पन्नमित्यादि प्रागुक्तं सूत्रम्"-ता. टि०। ५ सुखादेः । ५ जात्यात्मकत्वात् । सम्बन्धो हि सुखादेरा-ता० । ७ तद्रूपतया आ., ०,१० ।