________________
१११७० ] प्रथमः प्रत्यक्षप्रस्ताव
५३७ समिहित इत्येव सन्निकर्षोऽपि कारणम् ; सन्निधानस्याकारणेऽपि सम्भवात् । अत एव वक्ष्यति
"सभिधानं हि सर्वस्मिन्मव्यापारेऽपि तत्समम्" [न्यायविश्लो० ३०१] इति । यदि च, 'इदं रूपम्' इत्यादिज्ञानं सन्निकर्षजम् , 'अयं स गवयः' इत्यपि स्यात् , सन्निकृष्ट एव गवये तस्याप्युत्पत्तेः। तथा च तद्वषवच्छेदार्थ यत्नान्तरमास्थातव्यम् , अन्यथा तस्य प्रत्यक्षत्वेन 'प्रमाणान्तरत्वाभावानुषङ्गात् । तदन्तरूच तदिष्टं भवतामुपमानाख्यम् । तस्योप. ५ मानवचननिमित्तत्वेन व्यपदेश्यत्वादव्यपदेश्यपदेनैव व्यवच्छेद इति चेत् ; न; व्यपदेशसाधक. समस्यैव व्यपदेश्यत्वोपगमात् । न चोपमानस्य व्यपदेशसाधकतमत्वम् ; साधर्म्यसाधकतमत्वे. नोपगमात । अन्यथा तस्यापि 'इदं रूपम्' इत्यादिज्ञानवत् शाब्दत्वोपपत्तेर्न प्रमाणान्तरत्वं भवेत् । प्रमाणान्तरस्यापि तस्य व्यपदेशादुत्पत्तेर्व्यपदेश्यत्वमिति चेत् ; न ; रूपमित्यादिज्ञानस्यापि प्रमाणान्तरस्यैव तथा व्यपदेश्यत्वप्रसङ्गात् । तथा चानुपपन्नमिदं भाष्यम्- १० "नामधेयशब्देन च व्यपदिश्यमानं शाब्दम्" [न्यायभा० १।१।४] इति । व्यपदेशस्यैव तत्र साधकतमत्वं लोको व्यपदिशति-रूपमिदमित्येतद्वचनात् मया प्रतिपन्नं न तु प्रत्यक्षादित इति तव्यवहारप्रतिपत्तेः, ततः शाब्दमेव तत्र प्रमाणान्तरमिति चेत् ; न; इतरत्रापि तुल्यत्वात्गवयोऽयमित्याप्तवचनान्मया प्रतिपन्नं न प्रत्यक्षादित इत्यपि लोकव्यवहारोपलम्भात् । तथापि तस्याशाब्दत्वेनाव्यपदेश्यपदेन व्यवच्छेद इत्यास्थातव्यमेव यत्नान्तरम् । नास्थातव्यम् , १५ सन्निकर्षवचनेनैव - तस्य व्यवच्छेदात । न हि तस्य सन्निकर्षादुत्पत्तिः ; गवयदर्शनादेवाप्तवचनसहायात्तस्योत्पत्तेरिति चेत् ; सिद्धस्तर्हि 'इदं रूपम्' इत्यादिज्ञानस्यापि तत एव व्यवच्छेदः तस्यापि नीलादिदर्शनादेव शब्दसहायादुत्पत्तेर्न सन्निकर्षात् । अत एव विश्वरूपेणापि दर्शनमेव पुरस्कृत्य संकेतकरणमुपदर्शितम्- “ यदेतत्पश्यसि तस्य गोशब्दो वाचकः ।"
] इति । तदर्शनं पुरोधाय शब्दः सङ्केतितः कथम् । तदन्यस्य सहायत्वं सन्निकर्षस्य गच्छतु ॥१२१३।। सन्निकर्षपदेनैव तस्याप्येवं व्यवच्छिदि ।
इयमव्यपदेश्योक्तिरव्यावर्त्या विरुध्यते ॥१२१४।।
'नेदमव्यपदेश्यपदं विशेषणार्थ प्रत्यक्षस्य अपि तूत्तरपदद्वयनिषेधार्थम् अव्यपदेश्यम् २५ अवक्तव्यम् । किं तत् ? चिरन्तनै यायिकैस्तद्विशेषणत्वेनाभिहितगव्यभिचारीति व्यवसाया. त्मकमिति च पदद्वयम् । तत्प्रयोजनस्यान्यत एव भावादिति व्याख्यानदर्शनात् । तत इन्द्रियार्थ. सन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षमित्येव लक्षणमस्तु निर्दोषत्वादिति ; सोऽपि न निर्दोषवादी ; सन्निकर्षस्यैवात्ममनसोरसम्भवात् , तस्य च यथास्थानं निवेदयिष्यमाणत्वात् । भावेऽपि कथं सन्निकर्षस्य कादाचित्कत्वम् ? न हि नित्यहेतुकस्यानित्यत्वम् ; हेत्वनित्यत्वादेव तत्कार्या- ३०
१ उपमानप्रमाणत्वाभावानुषशात । २ “उक्तदोषपरिहारार्थपरः कश्चिन्नैयायिकः आह"-ता०टि। ३न व्यपदेश्यमव्यपदेश्यम् न कथनीयमित्यर्थः ।