________________
५३६ म्यायविनिश्चयविवरणे
[ ११२७० णमेव कर्तव्यम् तस्यैव प्रत्यक्षकारणतया सूत्रे निर्देशात् , न मनस्कारसत्त्वग्रहणं विपर्ययादिति चेत् ; न; तस्यापि तत्कारणत्वात् , सूत्रे तु तदवचनं साधारणकारणत्वात् । साधारणं हि कारणं मनस्कारादि; प्रत्यक्षवदनुमानादावपि भावात् । अक्षादेस्तु तत्रोपादानं प्रत्यक्षं प्रति तस्यासा. धारणहेतुत्वप्रतिपादनाथं न तु कारणान्तरव्यवच्छेदार्थम् । तथा च न्यायभाष्यम्-"नेदं कार५ णावधारणमेतावत्प्रत्यक्षकारणमिति । किं तर्हि ? विशिष्ट कारणवचनम् । यत्प्रत्यक्षज्ञानस्य विशिष्टकारणं तदुच्यते। यत्तु समानमनुमानादिज्ञानस्य न निवर्त्यते।" [न्यायभा० १।१।४] इति । यद्येवं सूत्रबदत्राप्यसाधारणमेव कारणं वक्तव्यं नेतरदिति चेत् ; न ; तत्रापि दूषणदर्शनार्थत्वात्तद्वचनस्य , ततः कुचोद्यमेतत् । तर्हि सुबद्धमिदं प्रत्यक्षलक्षण.
मिति चेत् , आह-विरुध्यते विचारेण पीड्यत इत्यर्थः । कथमित्याह-'तथा' इति । १० वीप्सागर्भमिदम् ।
तदयसर्थः-तेन तेन विशेषणरूपेण विशेष्यरूपेण तत्समुदायरूपेण च प्रकारेणेति । तथा हि- विशेषणं तावव्यवसायात्मकमिति विरुध्यते , निवाभावात् । संशयज्ञानं निवर्त्यमिति चेत् ; न ; तस्य सन्निकर्षपदेनैव निवर्तनात् । सन्निक पंजमेव तदपीति
चेत् ; कस्य सन्निकर्षः ? स्थाणुपुरुषयोरन्यतरस्य, उभयस्य वा ? न तावत्तदुभयस्य; १५ एकत्रैकहेलया तस्यासम्भवात्। सम्भवे तज्ज्ञानस्य संशयत्वानुपपत्तेः । न हि वस्तुसति संशयो नाम
अतिप्रसङ्गात् । अन्यतरस्य तु सन्निकर्षे तस्यैव तत्र प्रतिभासनं भवेत् कथमितरस्य ? असन्निकृष्टस्यापि प्रतिभासने अन्यत्रापि सन्निकर्षकल्पनावैफल्यात् । सन्निकृष्ट एवान्यतर इतरेणापि रूपेण प्रतिभासते नापरः कश्चिदसन्निकृष्ट इति चेत् ; न; इतराकारस्य तत्राभाव तेन सन्निकर्षानुपपत्तेः ।
रूपान्तरसग्निकर्षस्तु नेतरप्रतिभासकारणम् अतिप्रसङ्गात् । तन्न संशयज्ञानस्य सन्निकर्षजत्वम् । २० नापि विपर्ययज्ञानस्य ; विपरीताकारस्य तत्राविद्यमानत्वेन सन्निकर्षानुपपत्तेः । रूपान्तरस
निकर्षाश्च न तत्प्रतिभासनमिति निवेदनात् । तद्वदव्यभिचारीत्यपि विरुध्यते ; विपर्ययज्ञानस्यापि सन्निकर्षवचनेनैव मिवर्तनात् । तद्वदव्यपदेश्यमित्यपि। ननु च व्यपदेश्यं ज्ञानं शब्दसहायादिन्द्रियसन्निकर्षादेव भवति, तत्कथं तस्य तत्पदेन निवर्तनमिति चेत् ? कोऽसौ
शब्दस्तस्य सहायः ? सङ्केत्यमान इति चेत् ; प्रत्युत्पन्नविषयदर्शनस्य, तद्विपरीतस्य २५ वा ? न तावत्तद्विपरीतस्य ; अदृष्टे विषये 'अयमस्य वाचकः शब्दः' इति सङ्केतस्यासम्भवात् । स्मर्यमाणे सम्भव इति चेत् ; सत्यम् ; न चासौ सन्निकृष्टः । सन्निकृष्टे चेयं चिन्ता । भवतुं प्रत्युत्पन्नतदर्शनस्यैवासौ सहाय इति चेत् ; यद्येवं तदर्शनस्यैवासौ सहायो न सन्निकर्षस्य, तत एव तत्सहायाव्यपदेश्यज्ञानस्योत्पतेः । तदभावे साप सन्निकर्षे पूर्वमनुत्पत्तेः ।
अथ तदप्यपरिभ्रष्टसन्निकर्षमेव तजनयति ; जनयतु तथापि न सन्निकर्षस्य तत्कारणत्वम् । ३० दमेवम' इति चेत : इदमेवंशब्दाभ्यां तदर्शनस्यैव तत्पुरस्सरतया प्रतिवेदनात । न हि
१ -मिति किं तर्हि विशिष्ट कारणमिति किं तर्हि -ता० । २ तन्निवर्तते -आ०,०प० । ३ -स्य वाचकः शब्द इति वा आ०,०, प० । ४ तदर्शनादेव । ५ तदर्शनाभावे ।