________________
१।१७०]
प्रथमः प्रत्यक्षप्रस्ताव
५३५
साम्प्रतं नैयायिकस्य प्रत्यक्षलक्षणमुपदर्य निराकुर्वनाह
तथाक्षार्थमनस्कारसत्त्वसम्बन्धदर्शनम् ॥१६९॥ ब्यवसायात्मसंवायव्यपदेश्यं विरुध्यते । इति ।
अक्षम् इन्द्रियम् अर्थः तद्विषयो मनस्कारोऽन्तःकरणं सत्त्व आत्मा तेषां सम्बन्धः आत्मा मनसा युज्यते मन इन्द्रियेण तदप्यर्थेनेति क्रमेण सग्निकर्षः। तस्य कार्य दर्शनं ५ विषयज्ञानम् अक्षार्थमनस्कारसत्त्वसम्बन्धदर्शनं प्रत्यक्षमिति प्रकृतेन सम्बन्धः । इह खल्वक्षादिग्रहणमेव कर्तव्यम् , न सम्बन्धग्रहणं तदर्थस्यार्थादेव प्रतिपत्तेः । न हि विषय. ज्ञानं कुर्वदनादिकं परस्परमसनिकृष्टमेव कर्तुमर्हति, परस्परं सन्निकर्षवत एव दण्डादेर्घटादिकर्मणि व्यापारात्, तद्वदक्षादेरपि तादृशस्यैव विषयज्ञाने व्यापारोपपत्तेर्भवति तत्कार्यदर्शन. प्रतिपादनबलादेव तत्सम्बन्धप्रतिपत्तिः,अतो न कर्तव्यं सम्बन्धग्रहणमिति चेत् ; सत्यम् ; १० तथापि तत्क्रियते संयुक्तसंयोगादेः सम्बन्धान्तरस्य प्रतिक्षेपेणाभिमतस्यैव संयोगादिसम्बन्ध. षट्कस्य परिग्रहार्थम् । एवमपि बन्धग्रहणमेवास्तु तेनैव प्रत्यासत्तिवाचिना तत्षट्कस्यावरोधात् संशब्दस्तु किमर्थ इति चेत् ? न; तस्य 'सम् निश्चितो बन्धः सम्बन्धः' इति व्याख्यानार्थत्वात् । निश्चयश्च सम्बन्धस्य कचित् कस्यचित् नापरस्य । तथा हि-चक्षुषो घटादिना संयोगः सम्बन्धो निश्चितो द्वयोरपि द्रव्यत्वात् । तद्गतेन रूपादिना संयुक्तसमवायोऽन्यस्या- १५ सम्भवात । रूपत्वादिना तु तत्समवेतेन संयुक्तसमवेतसमवायः तस्यैव परिशेषात् । श्रोत्रस्य तु शब्देन समवायः । शब्दत्वेन समवेतसमवायः । समवायाभावाभ्यां पुनरिन्द्रियस्य सम्बन्धिविशेषणभावः, समवायिनो घटतदवयवा इति घटादिविशेषणत्वेन समवायस्य प्रतिपत्तेः, अघटं भूतलमिति भूतलविशेषणत्वेन च घटाभावस्याधिगमात् । तदेवमयमत्र सम्बन्ध इति निश्चययोतनार्थमुपसर्गोपादानम् । एवं विश्वरूपेणापि सन्निकर्षपदस्य व्याख्यानात् । __तदेव प्रत्यक्षमनभिमतव्यवच्छेदार्थ विशिनष्टि व्यवसायात्म। व्यवसायों निर्णय आत्मा स्वभावो यस्य तत् तथोक्तम् । अनेन संशयज्ञानस्य व्यवच्छेदः, तस्याक्षादिसम्बन्धदर्शनरूपत्वेऽपि व्यवसायभावाभावात् । संवादोऽव्यभिचारः सोऽस्यास्तीति संवादि अनेनापि विपर्ययज्ञानस्य । तस्योक्तरूपस्य व्यवसायात्मनोऽपि व्यभिचारभूमित्वात् । व्यपदेशाई व्यपदेश्यम् तदहत्वञ्च तत्कार्यत्वात् , न व्यपदेश्यम् अव्यपदेश्यम् अशब्दजन्यमिति यावत् । अनेनापि २५ शब्दसन्निकर्षाभ्यामुपजनितस्य 'इदं रूपम् इत्यादिज्ञानस्य॑ तस्योभयजन्मनोऽपि शाब्दतया लोकेऽधि(भि)रुढत्वात् । तदनेन "इन्द्रियार्थसन्निकर्षोत्पन्न ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षम्" [ न्यायसू० १।१।४ ] इति सूत्रमुपदर्शितम् । यद्येवमक्षार्थप्रह
"तच्चेदं प्रत्यक्षं चतुष्टयत्रयद्वयसन्निकर्षात् प्रवर्तते, तत्र बाह्ये रूपादौ विषये चतुष्टयसनिकर्षात् ज्ञानमुत्पद्यते आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थनेति, सुखादौ तु त्रयसन्निकर्षाज्ञानमुत्पद्यते तत्र चक्षुरादिव्यापाराभावात् , आत्मनि तु योगिनो द्वयोरात्ममनसोरेव संयोगाज्ज्ञानमुपजायते तृतीयस्य प्राह्यस्य ग्राहकस्य तत्राभावात् ।"-न्यायम०पू०७०।२-वरोधनात् भा०.०.प..३ किमर्थमिति आ०.०.प.। ४ सम्बन्धवि आ०,ब०,प० । ५ “व्यवच्छेद इति सम्बन्धः"-ता०टि० । “व्यवच्छेदः"-ता०टि।