________________
.
भ्यायविनिश्चयविवरणे
[ १११६९ प्रत्यक्षमपि सविकल्पं प्रत्यक्षत्वात् योगिप्रत्यक्षवदिति । कीरशश्च तनिर्विकल्पकम् ? निराकारमेकशक्तिकच्चेति चेत् ; न; तस्यानेकविषयत्वाभावानुषङ्गात् , अन्यथा नित्यस्यापि तादृशो ऽनेककार्याविरोधात् न तत्प्रतिषेधः तथा च
अशेषज्ञतयेष्टस्य किञ्चिज्ज्ञत्वायशस्थितेः। प्रायशो योगिविज्ञानमेतेन प्रतिवर्णितम् ॥१२०९॥ साकारमेकाकारं तदेतेनैव निरूपितम् । अनेकशक्तिकं तच्चेदनेकाकारमप्यलम् ॥१२१०॥ नानाशक्तितदाकारसाधारणतया स्थितम ।
निर्विकल्पं कथनाम तद्विभ्रजातिकल्पनाम् ॥१२११॥ तथा च
अविकल्पतयेष्टस्य विकल्पत्वायशःस्थितेः । प्रायशो योगिविज्ञानमेतेन प्रतिवर्णितम् ॥१२१२॥ साम्प्रतं सादयस्य प्रत्यक्षलक्षणं प्रत्याचक्षाण आह
श्रोत्रीविवृत्तिः प्रत्यक्ष यदि तैमिरिकादिषु ॥१६॥
प्रसङ्गः किमतवृत्तिस्तद्विकारानुकारिणी । इति ।
श्रोत्रमादिर्यस्य चक्षुरादेस्तस्य वृत्तिर्विषयाकारपरिणति: यदि चेत् प्रत्यक्षम् । ननु बुद्धिवृत्तिरेवाध्यवसायरूपा साङ्ख्यस्य प्रत्यक्षं "प्रतिविषयाध्यवसायो दृष्टम्" [सां०का० ५] इति वचनात् , तत्कथं श्रोत्रादिवृत्तिः प्रत्यक्षमाशङ्कयत इति चेत् ; न; तद्वृत्तेरपि बहिरिन्द्रिय.
प्रणालिकयैव भावात् तद्वत्तरेव तत्त्वोपपत्तेः। सति हीन्द्रियाणामालोचने मनसि सङ्कल्पः, २० ततोऽहकारेऽभिमानः, ततश्च बुद्धावध्यवसाय इति तत्सिद्धान्तप्रसिद्धः। अत्र दूषणम्-तैमिरिक
आविर्येषां कामलिकादीनां तेषु प्रसङ्गः श्रोत्रादिवृत्तिप्रत्यक्षत्वस्य । तथा च द्विचन्द्रादिरपि तात्त्विक एव भवेदिति भावः। तद्वृत्तिरेव सा न भवति यतोऽयमतिप्रसङ्ग इति चेत् ; अत्रोत्तरम्-किं कस्मात् अतवृत्तिः चन्द्रद्वित्वालोचनादिः, तस्य श्रोत्रादेर्विकारमनुकयेतीत्येवं
शीला न भवेदेव । भवति च, तिमिरादिना विकृत एव श्रोत्रादौ तद्वत्तेर्भावात् । आसादिता२५ व्यवसायनिबन्धनमेव वृत्तिस्तद्वृत्तिर्न वृत्तिमात्रम् ; इत्यपि न युक्तम् ; "शब्दादिषु पञ्चा]नामालोचनमात्रमिष्यते वृत्तिः ।" [सां०का० २८] इति तन्मात्रस्यैव तद्वृत्तित्ववचनात् ।
एकशक्तिकात् । २ "श्रोत्रादिवृत्तिः भ्रान्तेपि न हि नाम न विद्यते । न च ज्ञानं विना वृत्तिः श्रोत्रादेरुप पद्यते ॥"-प्र. वार्तिकाल २२३००।-अकलङ्क टि० पृ० १६२ । वार्षगण्यस्य । ३ बुद्धिवृत्तेरपि । "चक्षु रूपं पश्यति, मनः सङ्कल्पयति, अहङ्कारोऽभिमानयति र द्विरध्यवस्यति ।"-सां० का० माठर० ३० । ५ श्रोत्रादता भा०, ब०,०। ६ "शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः"-सां. का।
-