________________
१॥१६८ ]
प्रथमः प्रत्यक्षप्रस्ताव पुनरुत्थानम , निरवधिनिर्मोनम्यैव श्रवणान । तन्न विद्याबलपराहतस्य तत्कारणत्वनिर्बन्धोऽयमुपपत्तिबन्धुर इति चेत् ; नन्वेवं शास्त्रमेवाप्रमाणं स्यात , निरवयवपरमात्मसमापन्नत्वेन श्रावितयोः सुषुप्तनिर्मुक्तयोः पृथक्करणेन मिथ्याच्यापारत्वात् द्विचन्द्रादिबोधवत् । नास्त्येव तेन तयोः पृथक्करणं तदाभासयोरेवोपाधिगतयोः पृथक्करणात् , तयोश्च जलसूर्यादिवद्धदस्यैव प्रसिद्धेरिति चेत् ; भवत्वेवं तेन तयोः पृथक्करणम् , परमात्मापत्तिस्तु कथं श्राव्येत अवस्तुनो ५ वस्तुरूपापत्तेविरोधात् वस्तुनस्तदन्यरूपापत्तिवत् ? कथं तर्हि जलसूर्यादेर्जलाधुपरमे सूर्याद्या. पत्तिरिति चेत् ; न; तत्राप्याधारोपरतौ उपरमस्यैवोपलम्भात् न तदापत्तेः । एवमत्राप्युपाध्युपरमे तदाभासयोरुपरतिरेव स्यान्न तदापत्तिः अवस्तुत्वात् । ननूपाध्यनुप्रविष्टः परमात्मैव जीवो न तदाभास एव, “हन्ताऽहममिमास्तिस्रो देवता अनेन जीवनात्मनाऽनुप्रविश्य"[छान्दो० ६।३।२] इत्यादौ जीवस्यात्मत्वेन निर्देशात् कथं तस्यावस्तुत्वम् ? यतो न तदापत्तिरिति १० चेत् ; न तदपि साधु; लौकिकादविवेकाभिप्रायात तथा निर्देशात आभासस्यैवात्मत्वेन । अत. एवात्रार्थे सूत्रं भाष्यं च-"आभास एव च" [ब्रह्मसू० २।३।५०] इति । "आभास एवैष जीवः परस्यात्मनो जलसूर्यादिवत् प्रतिपत्तव्यो न स एव साक्षान्नापि वस्त्वन्तरम्" ब्रशा० २।३।५०] इति । ततो न स्वापाद्यवस्थायां विशेषविज्ञानस्याविद्याव्यपदेशस्यान्य. रूपापत्तिः, उपरतौ च न तस्योन्मजनम , तादशस्योन्मजने च न प्रबुद्धस्यानुभूतस्मरणादिकं १५ जीवान्तरवत् । अस्ति चेदम् । तस्मादव्यवच्छिन्नज्ञान एव स्वापादिः निश्चयवैकल्यान जानस्वप्नदशाभ्याम , अपरित्यक्त शरीरत्वाञ्च चतुर्थावस्थातो विशिष्यते ।
स्वसंवेदनमात्रस्य तु प्रत्यक्षत्वमाचक्षाणानां न तस्य जाप्रदादेविशेषः, तदात्मवेद. नस्यापि प्रत्यक्षत्वात् । तन्न निश्चयविकलसंवित्तिमात्रमेव प्रत्यक्षम् ।
अत्रैवोपपत्त्यन्तरमाह
प्रायशो,योगेविज्ञानमेतेन प्रतिवर्णितम् । इति ।
योगिविज्ञानं चतुरार्यसत्यगोचरं बुद्धज्ञानम् एतेन निर्विकल्पप्रत्यक्षवादेन प्रतिवर्णितं प्रतिपादितं भवतीति शेषः। कीदृशम् ? प्रायशः प्रकृष्टमयशोऽप्रामाण्यलक्षणं यस्य तादृशमिति। तदपि हि कल्पनापोढत्वादेव प्रत्यक्षम् , अन्यथा तल्लक्षणस्याव्याप्तिदोषात्। न च 'तत् स्वसत्तामात्रेण विनेयानां प्रमाणम् , अपि तु सोपायहेयोपादेयतत्त्वोपदेशात् । २५ "ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये ।" [प्र. वा. १।३२] इति वचनात् । सोऽपि न निर्विकल्पात् , नाप्यचेतनात् कुड्यादेः ; “ विकल्पयोनयः शब्दाः" [ .इति वचनात् । न विकल्पसंस्काराच; योगिनस्तद्भावे विधूतकल्पनाजालस्वविरोधात् । ततः सविकल्पमेव तदभ्युपगन्तव्यम् । तथा च सिद्धमिन्द्रियादि.
पृथकार-आ०,०प० । २ "आत्मनेति वचनात् स्वात्मनोऽव्यतिरिक्तेन चैतन्यस्वरूपतयाऽविशिष्टेन ।" -छान्दो० शा. भा०।३-मजनेन च आ०, ब०, ५०। ४ तत्सत्तामा-आ०,.ब.प.।