________________
५३२
म्यायविनिश्चयविवरणे
[ १२१६७ स्वापादौ विच्छेदे उपरमे विज्ञानानामिति सम्बन्धः हि यस्मात् चतुःसत्यं दुःखसमुदयनिरोधमार्गलक्षणं तस्य भावना प्रबुद्धेन मुहुर्मुहुश्चेतसि परिमलनं सा आदिर्यस्य गुणादिप्रकाशस्य ब्रह्मलोकात प्रत्यागमस्य च स विरुध्यते । तस्मात् सन्ति तदा विज्ञानानीति कथन्न कथितो दोषः १ तथा हि- यदि स्वापादौ ज्ञानविच्छेदः कुतः प्रबुद्धस्य तत्सत्य५ भावनं सन्निहितस्य तद्वीजस्याभावात् ? आमदवस्थानाविन इति चेत्; न ; तस्य चिरनष्टत्वेन कारणत्वानुपपत्तेः, अन्यथा आत्मदर्शनबाजादपि चिरप्रहीणादेव सुगतस्य जन्मदोषसमुद्भवलक्षणायाः पुनरावृत्तेः सम्भवात् , असम्भवदर्थमेतद्भवेत्- "अपुनरावृत्त्या गतस्सुगतः" [ ] इति । यदि पुनस्तस्य सम्यग्ज्ञाननिलुप्तशक्तिकत्वान्न कालान्तरेऽपि तत्फलम् ;
चतुःसत्यभावनाफलमपि तद्बीजान्न भवेत् , सस्यापि स्वापादिनिलृप्तशक्तिकत्वात् । दृश्यत इति १० चेत्; सत्यम् ; दृश्यते, चिरनष्टादिति तु न दृश्यते, सन्निहितादपि तदुपपत्तेः। यदि सन्निहित
ज्ञान एव स्वापादिः कथमवस्थान्तराद्विशिष्यत इति चेत् ? आस्तामेतत् । अपि च, कथमेवं प्रत्यक्षानुमानाभ्यां प्रवर्त्तमानस्य नियमेनाविसंवादः ? जाप्रज्ज्ञानात् प्रबोधचित्तवत् 'चिरकालापक्रान्तादपि जलपावकादेस्तदुत्पत्तिपरिकल्पनायां नियमतस्तदर्थक्रियावाप्तेरसम्भवात् । तद्रू.
पत्वाञ्चाविसंवादस्यं । ततो न सुभाषितमेतत् "मैं ह्याभ्यामर्थ परिच्छिद्य प्रवर्तमानोऽर्थ१५ क्रियायां विसंवाद्यते ।"[ ] इति । ततः सन्निहितादेव ततस्तदुत्पत्तिमभ्युपग
च्छता चतुःसत्यभावनापि सन्निहितहेतुकैवाभ्युपगन्तव्या । न च तद्भावना नेष्यत एव; तन्मूलत्वात् सकलगुणदोषप्रकाशरूपस्य योगिज्ञानस्य । तदुक्तम्
"बहुशो बहुधोपायं कालेन बहुनाऽपि च ।
गच्छन्त्यभ्यस्यतस्तस्य गुणदोषाप्रकाशताम् ॥” [अ० वा० १।१३७] इति।
तथा यदि स्वापादौ परमात्मसम्पन्नतया- विशेषविज्ञानविकलो जीवः कथं तस्य पुनरुत्थानम् । तस्य॑ तद्विज्ञानमूलत्वात्, तस्य च तदानीमभावात् । लेशतस्तद्भावेऽपि तदात्मापत्तेरनुपपत्तेः निवृत्तनिश्शेषाविद्यासस्पर्श हि परमात्मरूपम् , तत्कथं तदापन्नस्य जीवस्यापि 'तल्लेशसंस्पर्शः तद्रूपस्यैव तत्प्रसङ्गात् । भवतु जाग्रत्समयभाविन एव विशेषज्ञानात्तस्य पुन.
रुत्थानमिति चेत् ; न; संसारसमयभाविनस्ततो मुक्तस्यापि तत्प्रसङ्गात् । "तस्य विद्याबलोपर. २५ मितस्य न तद्धेतुत्वमिति चेत् ; स्वापादिबलोपरतस्य कथम्? शास्त्रप्रामाण्यात, श्रावयति हि शा
स्त्रम्-"पुनः प्रतिन्यायं प्रतियोन्याद्रवति" [बृहदा० ४।३।१७] इत्यादिकं सुषुप्तादेः पुनरुत्थानम् , ततो युक्तं तदलनिर्जुनस्यापि तद्धेतुत्वम् , अन्यथा तदनुपपत्तेः । न चैवं मुक्तस्य
१ परिमेलनं भा०, ब०, ५०। २ द्रष्टव्यम् पृ० ३६ टि० ६ । ३ समिहितादेव । " चिरकालप्रोक्तादपि -आ०, ब०, ५०। ५ ज्ञानोत्पत्ति। ६ “उक्तञ्च सुगतेन-प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिरविसंवादनम्" [प्र०वा०१३]-ता. टि.। . नाभ्यामर्थ आ०,०,५०। ८ पुनरुत्थानस्य । ९ परमात्मापत्तेः। १० अविद्यालेश। ११ संसारसमयभाविनः। १२-परहितस्य मा०, ब०, प०।