________________
प्रथमः प्रत्यक्षाप्रस्ताव
.
लक्षणं तु न कर्तव्यं प्रस्तावानुपयोगिषु । इति ।
तुशब्दः कर्तव्यमित्यतः परो द्रष्टव्योऽवधारणार्थश्च । तदयमर्थः-लक्षणं न कर्तव्यमेव , प्रस्तूयते प्रमाणफलत्वेनाधिक्रियते इति प्रस्तायो हेयोपादेयतत्त्वनिर्णयस्तत्र अनुपयोगीनि मानसमांसभक्षणादीनि तेषु । बहुवचनं मांसभक्षणादिनिदर्शनपरिग्रहार्थम् । वन धर्मोत्तरमतमपि न्यायधर्मादनपेतम् ।
साम्प्रतम् 'अविकल्पकम्' इत्यादिना सामान्यतः प्रतिक्षिप्तमपि स्वसंवेदनप्रत्यक्षं युक्त्यन्तरेण प्रतिक्षिपनाह
अध्यक्षमात्मवित्सर्वज्ञानानामभिधीयते ॥१६६॥ खापमूच्छोंद्यवस्थोऽपि प्रत्यक्षी नाम किं भवेत् ।
अध्यक्ष कल्पनाविभ्रमविकलत्वेन आत्मवित् आत्मवेदनम् अभिधीयते १० सौगतैः । तत् सर्वज्ञानानां विकल्पेतरभेदाधिष्ठाननिरवशेषबोधानाम् , तदुक्तम्-"सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षम्" [न्यायबि० पृ० १९ ] इति । अत्रदूषणम्-स्वापश्च स्वप्नदर्शनविकलोऽवस्थाविशेषो न तदर्शनवान् , तदवस्थस्य स्वयमपि प्रत्यक्षत्वोपगमात् । मूर्छा च मर्मप्रहारादिनिमित्तश्चित्तव्यामोहः, स्वापमूळे ते आदी यस्योन्मादादेः स
खापमूर्छादिः स्वनिश्चयवैकल्याविशेषेण स्वाप एव मूर्छादेरन्तर्भावेऽपि पृथगुपादानम् , १५ 'निमित्तभेदतो भेदस्यापि भावात् । अन्यदेव हि प्रासादशयनादिकं निमित्तं स्वापस्यान्यदेव च विशेषोपयोगादिकं मूर्छादेः । तथा कार्यभेदादपि, सुप्तस्य 'निर्भवन्ति ष्ठेपथु (?) व शरीरं तद्विपरीतं मूछितादेरपि । स एवावस्था यस्य सोऽपि न केवलं तद्विपरीत इत्यपि शब्दः प्रत्यक्षी प्रत्यक्षवान् नाम स्फुट किन्न भवेत् ? नकारस्य पूर्वश्लोकादनुवृत्तः, भवेदेव । तत्राप्यात्मसंविदो भावात् , तथा च कथमवस्थाचतुष्टयप्रतिष्ठेति भावः । २०
___तदवस्थस्य ज्ञानमेव नास्ति, तद्भावे जाप्रत इव तत्त्वविरोधात्ततः कथमात्मवेदनम् ? सखोऽयं प्रसङ्ग इति "प्रज्ञाकरो"ब्रह्मवादी च ; तेनापि तदवस्थायां जीवस्य परमात्मरूपसम्पन्नतया विशेषविज्ञानोपरमस्योपगमात् । “प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्य किश्चन वेद नान्तरम्" [बृहदा० ४।३।२१] इति श्रुतेः ।
तत्रोत्तरं दर्शयतिविच्छेदे हि चतुःसत्यभावानादिविरुध्यते ॥१६७॥ इति ।
तुलना-"मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति,: सवेपथुरस्य देहो भवति, भयानकं च वदनम् , विस्फारित नेत्र। सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनःपुनरुच्छ्वसिति निमीलिते अस्य नेत्रे भवतः । निमित्तभेदश्च भवति मोहखापयोः, मुसलसम्पातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च खापस्य ।"-शा.. भा. ३।२।१०। २-निर्भवन्तिष्वप्रथु था. ता०। ३ जाप्रत्खप्नसुषुप्तितुरीयावस्थाः। ४ "संवेदनाभाव एव सुप्तमृतयो परो विशेषः"-प्र. पार्तिकाल. १०५७। ५ "सुषुप्तिर्नाम ज्ञानशुन्यो जीवस्यावस्थाविशेषः । अत्र च श्रुतिः-'यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन खप्नं पश्यति तत् सुषुप्तम्"-० उ० ४।३।१९ ।