________________
५३० ग्यायविनिश्चयविवरणे
[१।१६५ धर्मोत्तरस्त्वाह - न प्रत्यक्षादिप्रसिद्धत्वात् मानसं प्रत्यक्षमिष्यते यतोऽयं दोषः किन्त्वा. गमाधीनत्वात् । तत्र च परे दोषमुद्भावयन्ति-यदि मानसमपि किश्चित्प्रत्यक्षं तर्हि नान्धो नाम कश्चित् लोचनविकलस्यापि तत्सम्भवादिति तत्परिहाराय तल्लक्षणप्रणयनम् इन्द्रियज्ञानेन' इत्यादि । न हीन्द्रियज्ञानमन्धस्य यतस्तदुपादानस्य मानसप्रत्यक्षस्य तत्र भावात्तव्यवहारो ५ न भवेदिति । तत्रोत्तरमाह
वेदनादिवदिष्टं चेत्कथं नातिप्रसज्यते । इति ।
वेदना सुखाद्यनुभूतिरादिर्यस्य संज्ञादेस्तत् इष्टम् अभिमतम् प्रत्यक्षं चेत् यदि । दूषणमत्र-'कथम्' इत्यादि सुबोधम् । तथा हि
अस्वसंवेदनं तच्चेत् प्रत्यक्षत्वेन गम्यते । ऐन्द्रियादिकमप्येवं तथा चातिप्रसञ्जनम् ।। १२०५॥ "अप्रत्यक्षोपलम्भस्य" इत्यादि निर्विषयं भवेत् । आगमादेव तत्सिद्धं कथमस्तु स्ववेदने ॥१२०६॥ बुद्धश्चैतन्यमप्यन्यत् प्रत्यागमनिरूपितम् । भवेदित्यपि बुद्धोक्तं कथन्नातिप्रसज्यते ? ॥१२०७।। प्रमाणबाधस्तुल्योऽयमुभयत्रात एव हि । 'अध्यक्षादिविरोधः स्यात्' इत्यभाणि मनीषिणा ॥१२०८॥ यत्पुनरुक्तम्-विप्रतिपत्तिनिराकरणाय सल्लक्षणमुच्यत इति ; तत्राह
प्रोक्षितं भक्षयेन्नेति दृष्टा विप्रतिपत्तयः। ॥१६५॥ इति । मोक्षितं मन्त्रिताभिरद्भिरभ्युक्षितं भक्षयेत् मांसमिति वैदिकाः । तदुक्तम्
"प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां तु काम्यया ।
यथा विधिनियुक्तस्तु प्राणानामेव चात्यये ॥" [मनु० ५।२७] इति । न गक्षयेत्प्रोक्षितमपि तु 'पात्रपतितं त्रिकोटिशुद्धम्' इति 'बौद्धाः, इति एवं दृष्टाः उपलब्धा विप्रतिपत्तयो बहुवचनमन्यासाम् अपि तासाम् 'योगात्स्वर्गः, चैत्यवन्दनात् "स्वर्गः' इत्यादीनां
परिग्रहार्थम् । तथा च तन्निवर्तनार्थमपि प्रमाणशास्त्रे तल्लक्षणमभिधातव्यमिति भावः, २५ तत्त्वपरिच्छेदं प्रत्युपयोगित्वेन "तं प्रत्यनुपयोगात् । तदेवाह
"एतच्च सिद्धान्तप्रसिद्ध मानसं प्रत्यक्षम् , न त्वस्य साधकमस्ति प्रमाणम् , एवं जातीयकं तद्यदि स्यात् न कश्चिद्दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येति ।"-न्यायबिटी०पृ०१९ । २ यदा चेन्द्रियज्ञानविषयोपादेयभूतः क्षणो गृहीतस्तदा इन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्याग्रहणादन्धबधिराद्यभावदोषप्रसङ्गो निरस्तः।"-न्यायबि० टी० पृ० १९ । ३ अन्धादिव्यवहारः। ४-न क्षाम्यते आ०,ब०प० ।५ द्रष्टव्यम्-पृ०४६९ टि०७ । ६ सांख्यागम । . बुद्धयोक्तं मा०,ब०,१०। ८ इतीति आ०,०प०९ "तर्हि खो अहं जीवक अनेहि मंसं अपरिभोगं ति वदामि दिटुं सुतं परिसंकितं ... खो अहं जीवक ठानेहि मंसं परिभोगं ति वदामि अदिळं असुतं अपरिसंकितं"मनिमम जीवकसुत्त । १० वैदिकानाम् । ११ वौद्वानाम् । १२ विप्रतिपत्तिनिराकरणं प्रति ।