________________
२१६४] प्रथमः प्रत्यक्षप्रस्ताव
५२९ क्रमोत्पत्तौ सहोत्पत्तिविकल्पोऽयं विरुध्यते । इति ।
क्रमेण मनसाम् उत्पत्ती अभ्युपगम्यमानायां सहैवोत्पत्तिर्यस्य रूपादिपरा. मर्शस्य सोऽयं प्रतीयमानो विरुध्यते। सत्युपादानक्रमे 'तदनुपपत्तेः । ततो रूपे मनः, पुनस्तद्विकल्पः, ततो रसे मनः, पुनस्तद्विकल्पः, तथान्यत्रापीति विकल्पैर्मनोव्यवहितैः मनोभिच विकल्पव्यवहितैर्भवितव्यम् । न चैवम् , प्रतीत्यभावादिति भावः। ५
___स्यान्मतम्-पश्चादेक एव तेभ्यस्तद्विकल्प इति ; तन्न, इन्द्रियज्ञानक्रमोत्पत्तावप्येवं तद्भावप्रसङ्गात् । भवत्विति चेत् ; अत्राह- 'क्रम' इत्यादि । क्रमोत्पत्तौ इन्द्रियचेतसा सहोत्पत्तेरिन्द्रियज्ञानयुगपदुत्पादस्य विकल्पो निश्चयः "तस्मात् सन्तु सकृद्धियः।" [प्र. वा० २।१३७] इत्ययं परस्य प्रसिद्धो विरुद्ध्यते । कथं वा मनसां प्रत्यक्षत्वम् यदि न स्वसंवेदनम् ? तद्रूपस्यैव स्वयं तदभ्युपगमात् । स्ववेदने तु तत एव तत्प्रसिद्धेः किं . 'विकल्पतः ? तदनुमानेन निश्चयार्थम् , तनिश्चितस्यैव सिद्धत्वात् , स्ववेदनस्य चाविकल्पत्वेनानिश्चयत्वादिति चेत् ; न ; विकल्पस्याप्येवं स्वतोऽसिद्धिप्रसङ्गात् , तदनुभवस्याप्यनिश्चयत्वात् । निश्चयान्तरात्तत्सिद्धिकल्पनायाम् अनवस्थोपनिपातात , असिद्धस्य चालिङ्गत्वात् । अनिश्चयेऽपि तत्प्रसिद्धौ मनसामपि स्यादविशेषादिति व्यर्थमेव ततस्तदनुमानम् । इदमेवाह
अध्यक्षादिविरोधः स्यात्तेषामनुभवात्मनः ॥१६४॥ इति । १५
आत्मनोऽनुभवः अनुभवात्मा, राजदन्तादिषु दर्शनात् आत्मशब्दस्य परनिपातः, ततोऽनुभवात्मनः स्वानुभवस्य तेषां मनसां सम्बन्धिन 'उत्पत्तावपि' इति सम्बन्धः । तत्र दूषणम्-अध्यक्षमादिर्यस्य तद् अध्यक्षादि अनुमानमिति यावत , तस्य विरोधो वैफल्येन परिपीडनं स्याद् भवेदिति । अथवा, तेषामिति सहोत्पत्तिविकल्पंपरामर्शः प्रक्रमात् । बहुवचनं पुनर्व्यक्तिबहुत्वापेक्षम् , तेषाम् । 'कस्यां किम् ? अनुभवात्मनः २० अनुभव आत्मा स्वभावो यस्य तद् अनुभवात्म, प्रक्रमात् मानसं प्रत्यक्षम् , तस्मात् । उत्पत्तावधिकृत्याभ्युपगम्यमानायाम् अध्यक्षेण आदिग्रहणादनुमानेन च विरोधो बाधः स्यात् । प्रत्यक्षेण तावद्भवति ततस्तदुत्पत्तेर्वाध:, तेनेन्द्रियज्ञानादेव तदुत्पत्तिप्रतीतेः, तथा ह्यनुभव:- 'मया युगपञ्चक्षुरादिना रूपादिकमन्वभावि' इति । तद्वदनुमानेनापि , तेनापि तस्मादेव तदुत्पत्तेरठरावसायात् । तथा हि- यद्यस्यान्वयव्यतिरेकावनुविधचे तत्तस्यैव कार्य २५ कुलालादेरेव (रिव)कुम्भादिः, अनुविदधते चेन्द्रियस्यान्वयव्यतिरेको तद्विकल्पा इति । अनुकृतान्वयव्यतिरकादन्यस्य च तद्धेतृत्वकल्पनायां न क्वचित् कश्चिन्नियतो हेतुः फलं वा भवेत् । तन्न शान्तभद्रपक्षा' ज्यायान् ।
१ सहोत्पत्त्यनुपपत्तः । २ विकल्पस्तद-आ०, ब०, प० । ३-थ न तन्नि-आ०, ५०,५०। ४ "राजदन्तादिषु परम्"-पा० सू० २।२।३१। ५ -कल्लानां प-आ०, ब०, ५०। ६ तस्यां आ०, ब०, प० । ७-क्षो न्यायात् ता०।