________________
५२८ भ्यायविनिश्चयविवरण
[१।१६३ विकल्प इति किं मानसेन ? तदाह-चेत इति । चेत एव अक्षज्ञानमेव न मानसम् । किं कस्मात् न विकल्पयेत् इति सम्बन्धः । कीदृशम ? समनन्तरं परेण मानसस्योपादानमुक्तं यदि भिन्नसन्तानत्वम् ; तर्हि यथा ततो न विकल्पस्तथा मानसमपि न भवेत्। न हि मण्डूकस्य पिता 'गण्डूपाद् भवति । सदाह-चेत इति । चेतः अक्षज्ञानं समनन्तरं मानसस्यो५ पादानं किमेवं नैव विकल्पवत् । तत्रैव दोपचयमाह-- - ----
शष्कुलीभक्षणादौ चेत्तावन्त्येव मनांस्यपि ॥१२॥ यावन्तीन्द्रियचेतांसि प्रतिसन्धिन युज्यते ।
शष्कुल्या भक्ष्यविशेषस्य भक्षणमादिर्यस्य तदा घ्राणादेस्तस्मिन् , चेत् यदि तावन्त्येव तत्परिमाणान्येव न न्यूनान्यधिकानि वा मनांस्यपि मानसप्रत्यक्षाण्यपि, न केवलमक्षज्ञानानीत्यपिशब्दः । यावन्ति यत्परिमाणानि इन्द्रियचेतांसि इन्द्रियप्रत्यक्षाणि प्रतिसन्धिः प्रत्यवमर्शो न युज्यते । तात्पर्यमत्र- यथेन्द्रियज्ञानपरिमितानि मनांसि तथा तजन्मानो विकल्पा अपि तत्परिमाणा एवेति कथमयमेकः परामर्श:-'रूपादिकमहमेवानुभवामि' इति ? तदभावे च रूपादीनां कथमेकघटादिव्यवहारविषयत्वम् ? एकप्रत्यवमर्शबलादेव तदुपगमात ।
___ "एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी ।
___ एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥' [ प्र०वा० ३।१०८ ] इति वचनात् । तन्न तावत्त्वं मनसामुपपन्नम् ।
अथैकमेव सकलरूपादिविषयं तेभ्यो मनस्तदाह
अथैकं सर्वविषयमस्तु इति । सुबोधमेतत् । अत्रोत्तरम्
किंवाक्षबुद्धिभिः ॥१६३॥ इति । अक्षबुद्धिभिः अक्षज्ञाने किंवा किमिव तदेकम् , न किछिदिह निदर्शनमस्ति । जलाहरणादिकमस्त्येव, तस्य घटादिव्यपदेशभाजोडनेकरमादेव रूपादेरेकरय भावादिति चेत् ।
न; तस्य तत्रानुपादानत्वात , एकान्ततस्तदनेकत्वस्य चाप्रसिद्धः । एकोपादानमनेकमिव तदुपा२५ दानमेकमपि कम्मान भवति ? दृश्यते हि नीलैकज्ञानोपादानं कर्कटीभक्षणादौ रूपादिज्ञानपञ्चक
मिति चेत् ; न ; तस्याप्यसिद्धः, रूपादिविषयस्यैकस्यैव मेचकस्य प्रतीतः । 'यावन्तीन्द्रियचेतांसि' इति तु परप्रसिद्ध्यवाभिहितः । तन्न युक्तम्-एकम् इत्यादि ।
साम्प्रतं मनसामक्रमोत्पत्तायुक्तं प्रतिसन्ध्यभावं क्रमोत्पत्तावपि दर्शयन्नाह
१ गण्डूषाद् भव-भा०,०, प० । किञ्चुलुकः । 'केंचुआ' इति भाषायाम् । २ "विकल्पः"-तारि। ३ अनेकोपादानम् ।