________________
११६२ ]
प्रथमः प्रत्यक्ष प्रस्तावः
५२७
""
मानसप्रत्यक्षे तदनुभूतमेव विकल्पयति नाक्षानुभूतं तत्किमक्षग्रहणेन ? तद्धि तदानीमर्थवत् यदि सति तस्मिंस्तदनुभूतं विकल्पयेत् न चैवम्, अतोऽनुभूतग्रहणमेव कर्तव्यमिति चेत्; अन्यथा तर्हि व्याख्यास्यामः- अनुभवनमनुभूतम्, अक्षाणां कार्यमनुभूतम् अक्षानुभूतम् अक्षज्ञानमिति यावत्, तत्कर्तृ इदमन्तरेण न विकल्पयेत् न विकल्पं नीलादिस्मरणं कुर्यात् । अत्र चोपपत्ति:- सन्तानान्तरत् इति । सन्तानस्यान्तरं भेदः स विद्यतेऽस्येति ५ सन्तानान्तरवत् अक्षानुभूतम् । एतच्च हेतुपदं द्रष्टव्यम् - सन्तानान्तरवत्त्वादिति, विषाणी गौरित्युक्ते विषाणित्वादितिवत् । तद्वत्वश्च तस्य तेन यौगपद्यात् “मनसोर्युगपद्वृत्तेः ' [प्र० वा० २ । १३३] इति वचनात् । न च युगपद्वत्ता उपादानोपादेयत्वं तन्निबन्धनं चैकसन्तानत्वम् | उदाहरणस्य तु प्रसिद्ध सन्तानान्तरतदनुभूतस्य सुगमत्वात् अनुपन्यासः । चेच्छन्दः पराकूतद्योतनः । तत्रोत्तरम् - 'चेतः' इत्यादि । एवकार: किमोऽनन्तरं द्रष्टव्यः । चेतो १० मानसं प्रत्यक्षं समनन्तरम् उपादानं किमेव नैव, विकल्पश्येति शेषः । न हि मानसं विकल्पश्योपादानमुपपन्नम् ; इन्द्रियज्ञानं समभाविनस्तस्य ततः प्रागेव भावात् तस्य चेन्द्रियज्ञान कार्यतया पश्चादेवोत्पत्तेः । न च भाव्यपि समनन्तरमिति प्रज्ञाकरादन्यस्य मतम् । तत्रापि
1
"
इन्द्रियज्ञानं समनन्तरम् उपादानं मानसस्य किमेव नैव, अपि तु विकल्पवदुपादेयमेव स्यात् । तथा चेत्; न; मानसस्य निरुपादानसत्तापत्तेः । तदेवाह - चेत इति । एवकार- १५ श्वेतः शब्दात्परो द्रष्टव्यः । मानसस्य समनन्तरं चेत एवास्ताम् | अन्यदित्यवधारणम्, किं न किञ्चित् । उत्तरं मानसमेव तस्य समनन्तरमिति चेत्; न. तर्हीदमुपपन्नम् " इन्द्रियज्ञानेन” [प्र० वार्तिकाल० २ । २४३ ] इत्यादि । इन्द्रियज्ञानं तस्योपादेयमुपादानं चेति चेत्; किमेवं विकल्प एव न भवेदविशेषात् ? तदेवाह-चेत एव इन्द्रियज्ञानमेव समनन्तरं मानसस्य किं कस्मात् विकल्पोऽपि स्यात् । एवञ्च 'विकल्पान्मानसं ततश्च विकल्प:' इत्यन्योन्यसंश्रय २० इति मन्यते । भवत्ययं प्रसङ्गो यदि तयोः परस्परत आत्मलाभाद्धेतुफलभावो भवेत्, एकानिष्पत्तावन्यानिष्पत्तेः । न चैवम् कुतश्चित् कस्यचिदात्मलाभस्यैव विचाराधिष्ठितस्याप्रतिष्ठानात्, अत एवोक्तं “निष्पत्तेरपराधीनम्” [ प्र० वा० २।२६ ] इत्यादि, अपि तु नान्तरीयकत्वात् । न हि स्वकालभाविनं विकल्पमन्तरेण मानसम् नापि तादृशं तदन्तरेण विकरूपः, ततो न परस्पराश्रय इति चेत्; न; तत एव सन्तानभिन्नयोः युगपद्वृत्तिचित्तयोरपि २५ सद्भावापत्तेः । न हि विना देवदत्तचित्तेन यज्ञदत्तादेश्चित्तम्, तदेकचित्तस्यैव जगतः प्राप्तेः तत्प्रबन्धस्याविच्छेदात् न चैवम्; अतोऽस्ति तयोरप्यविनाभावान्मिथो हेतुफलभाव इात कथं सन्तानान्तरचित्तपरिहारेण मरणचित्तादुत्तरभवाद्यचित्तस्यैवानुमानं यतो निश्चिता परलोकसिद्धिबद्धस्य १ तन भाविनो मानसाद्विकल्पः । भवतु पूर्वस्मादेव, पूर्वाक्षज्ञानजन्मन इति चेत ; तस्यार्क्षज्ञानेन सन्तानत्वम् तदुपादेयस्य विकल्पस्यापि स्यात्, देवदत्तेनंव तत्पौत्रस्य । तथा चाक्षज्ञानादेव ३०
"
:
१ - त्रस्कर्तृ आ०, ब०, प०। २ क्रिमनन्तरं आ०, ब०, प० । ३ - सहभा-आ०, ब०, प०। ४ उपादानम् । ५- तरभावाद्य - भा०, ब०, प० । ६-ज्ञाने य-आ०, ब०, प० ।