________________
५२६
म्यायविनिश्चयविवरणे
[ १।१६२ एकत्वभागे प्रत्यक्षं तन्मा भूदिति कल्पने । "प्रत्यक्षवेद्यमेकत्वम्" इत्युच्चैर्युष्यते कथम् ? ॥१२०१॥ अभिप्रेत्य चिदाद्यशं प्रत्यक्षं यदि तन्मतम् । वाच्यः स एव तद्वयः कथमेकत्वमुच्यते १ ॥१२०२।। प्रत्यक्षांशात्कथञ्चिच्चेद् विभ्रमस्याविभेदनात् । प्रत्यक्षवेद्यमेकत्वमित्युक्तं व्यक्तया गिरा ॥१२०३।। निर्णयादविभेदोऽपि भवेदेवं तथा सति ।
"इदमित्यक्षविज्ञान" न ततो मानसं परम् ॥१२०४॥ कुतश्चायं प्रत्यक्षस्य स्वरूप विभ्रमः ? कारणदोषादिति चेत् ; न
"हेतुदोपात् प्रमेये धीरतथापीति युक्तिमत् ।
खरूपेऽपि कथं युक्ता हेतुदोषशतादपि ॥" [ ]
इत्यस्य विरोधात् । अनेन कारणदोषादपि स्वरूपविभ्रमाभावस्य प्रतिपादनात् । ततो नेन्द्रियादेकत्वाध्यवसायः । मा भून्मानसादेव तदभ्युपगमादिति चेत् । न ; तस्यापि स्वरूपेऽज्य
वसायशून्यत्वात् , स्वरूपस्य च प्रत्यक्षकत्वेनाध्यवसेयतया प्रस्तुतत्वात् । १५ अपि च, तदध्यवसायो यद्यर्थाध्यवसायसमसमयः ; तदा "न च युगपदनेक
विकल्पसम्भवः" [ ] इत्यस्य विरोधः । तद्भिन्नसमयश्चेत् ; न ; तदुभयात्म. कस्य मानसस्याक्षणिकत्वप्रसङ्गात् । तन्न मानसादपि तदध्यवसायः । नापि ज्ञानान्तयत् ; तस्यापि तत्समयस्यानुपलक्षणात् । एकत्वाध्यवसायादनुपलक्षणमिति चेत् ; न ; तदन्यतोऽभ्य
वसायेऽनवस्थोपपत्तेः । भिन्नसमयत्वे तु तस्य न ततस्तयोरेकत्वाध्यवसायः ; तत्समये २० तयोरेवाभावात, असतोश्चाविवेकनिश्चयानुपपत्तेः । तन्न तयोरेकत्वाध्यवसायाद् भेदस्यानुपलक्षणम् अपि त्वभावादेवेत्युपपन्नम्-'भेदः' इत्यादि ।
शान्तभद्रस्त्वाह-यद्यपि प्रत्यक्षतस्तस्य तस्माद्भेदो न लक्ष्यते कार्यतो लक्ष्यत एव । कार्य हि नीलादिविकल्परूपं स्मरणापरव्यपदेशं न कारणमन्तरेण, कादाचित्कत्वात् । न चाक्ष
ज्ञानमेव तस्य कारणम् ; सन्तानभेदात् प्रसिद्धसन्तानान्तरतज्ज्ञानव । ततोऽन्यदेवाक्षसाना-, २५ तत्कारणम् , तदेव च मानसं प्रत्यक्षमित्येतदेव दर्शयित्वा प्रत्याचिख्यासुराह
अन्तरेणेदमक्षानुभूतं चेन विकल्पयेत् ॥१६॥
सन्तानान्तरवच्चेतः समनन्तरमेव किम् । इति ।
अन्तरेण विना इदम् अनन्तरोक्तं मानसं प्रत्यक्षम् अक्षानुभूतम् ऐन्द्रियज्ञानविषयीकृतं नीलादि न विकल्पयेत् नीलादिकमिदमिति नानुस्मरेस्लोकः सौगतो वा । सत्यपि
१-शा क-आ०,ब०,१०।२ "इदमित्यादि यज्ज्ञानमभ्यासात्पुरतः स्थिते। साक्षात्करणतस्तत्तु प्रत्यक्षं मानसं मतम् ॥"-प्र. वार्तिकाल. २१२४३ । ३ -तत्कर-आ०, ब०, प.।