________________
१११६१ ।
/
प्रथमः प्रत्यक्ष प्रस्तावः
५२५
तच्छब्दस्य च प्रक्रान्तपरामर्शित्वादिति चेत ; न; विषयिप्रक्रमादेव नान्तरीयकतया विषयस्यापि प्रक्रमात् । एवमपि श्रुतस्यैव विषयिणः किमपरामर्श इति चेत् ? न; तद्विषयतया मानसस्य परैरनभ्युपगमात् । तदभ्युपगमस्य चानेन प्रतिपादनात् । तथा च परस्याभ्युपगमः - "इन्द्रियज्ञानेन समनन्तरप्रत्ययेन स्वविषयानन्तरविषय सहकारिणा जनितं मानसम्" [ प्र० वार्तिकाल० २।२४३] इति ।
1
तदिदानीं निराकुर्वन्नाह - भेदस्तत्र न लक्ष्यते । इति । भेदो व्यतिरेक इन्द्रि - यज्ञानात् तत्र मानसे न लक्ष्यते न दृश्यते । तथा हि तज्ज्ञानात्पूर्वम, सह, पश्चाद्वा स तत्र लक्ष्येत ? न तावत्पूर्वम्; तत्कार्यस्य ततः पूर्वमसम्भवात । नापि सह कार्यकारणयोः सहभावानुपपत्तेः, युगपत्प्रत्यक्षद्वयस्याप्रतिवेदनाश्च । न हि तदैव मानसमिन्द्रियञ्च प्रत्यक्षद्वयमनुभवादर्श विशदवपुपि प्रतिफलितमवलोकयामो यतस्तथावकल्पयेम अनियमप्रसङ्गात् । न ह्यनव- १० लोकितावकल्पनस्य नियम:- 'द्वयमेव तत् न तत्त्रयादिकम् ' इति, स्वेच्छानिबन्धनस्य तत्राप्यनिवारणात् । नापि पश्चात् तदेन्द्रियव्यापारे तैत्प्रत्यक्षताया एव तत्रोपपत्तेः । अव्यापारे न विशदप्रतिभासप्रतीतिः । न कल्पनया तदस्तित्वम्; अन्धादावप्यविशेषात् । नन्वयमेव तस्य तस्माद्भेदो यन्निश्चयरूपत्वम् । निश्चयरूपं हि मानसमवलोक्यते 'इदं नीलम् इदं पीतम्' इत्युलेखतस्तस्योपलम्भात् न तथेन्द्रियज्ञानस्येति चेत्; एवमिन्द्रियज्ञानस्यैव निश्चयरूपत्वे को १५ दोष: ? तद्विषये कथं संशयादिः निश्चयविरोधादिति चेत् ? मानसविषयेऽपि कथं तदविशेषात् । न भवत्येवेति चेत्; किमिदानीमनुमानेन, संशयादेरनुत्पन्नस्य व्यवच्छेदासम्भवात् ? यत्र मानसं तत्रोत्पद्यत एव संशयादिरिति चेत्; न; सतीन्द्रियज्ञानादौ तत्कारणे मानसस्यासम्भवानु. पप े: । सम्भवोऽपि तस्य नीलादावेव न क्षणभङ्गादावत: तंत्र संशयादिव्यवच्छेदात्स फलमेवामानमिति चेत्; न; निरंशवस्तुवादिनां भागशो वस्तुपरिच्छेदस्यासम्भवात् । न च २० निश्चयानिश्चयरूपतया व्यापृतेन्द्रियस्य प्रत्यक्षद्वयम् ; अनुपलक्षणात् ।
;
यत्पुनरेतत् - समान कालमाकारद्वयमिदमैन्द्रियं मानस, तस्य चैकत्वाध्यवसायाद् विवेकेनानुपलक्षणमिति ; तत्र कुतस्तदध्यवसायः ? न तावदैन्द्रियात् तस्यानध्यवसायस्वभावत्वात् । न ह्यनध्यवसायोऽध्यवस्यतीत्युपपन्नम्, अलोचनो लोकयतीतिवत् । एकत्ववेदमंत्र तदध्यवसायो नैकत्वविकल्पनं तचाविरुद्धमेवैन्द्रियस्याध्यक्षस्यापीति चेत्; उच्यते
तद्वेदनं चेदभ्रान्तं तथ्यमेकत्वमापतेत् ।
आकारद्वयमित्यादि तन्मिथ्यैव भवद्वचः ॥ ११९९ ॥ भ्रान्तमेव तदिष्टं चेरप्रत्यक्षं तत्कथं मतम् ? | अभ्रान्तत्वं यतो बौद्धर्बुद्धमध्यक्षलक्षणम् ॥ १२००॥
१ इन्द्रियज्ञानात् । २ इन्द्रियप्रत्यक्षताया । ३ मानसप्रत्यक्षस्य । ४ क्षणभङ्गादौ ।
२५