________________
५२४
न्यायविनिश्चयविवरण
[१॥१६१
तन्नायं लोकरूढोऽस्ति व्यवहारो भवन्मतः ।
तल्लोपायैव चेष्टन्ते यतो व्यवजिहीर्पवः ।। ११९.८।।
ततो युक्तमुक्तम्-'ततः' इत्यादि । अथवा, प्रत्यक्षस्य तत्त्वं निर्विकल्पत्वं तस्य व्यवस्थानं तत इति साहसम् । न ह्ययथार्थादनुमानविकल्पात्तदवस्थापनमुपपन्नम् ; अस्ति ५ चैतत्परस्य - "प्रत्यक्षं निर्विकल्पम् अर्थमामादुत्पनेकनरार्थक्षणवत्" [. इत्यादेः “न सन्ति प्रत्यक्षे कल्पनाः, उपलब्धिक्षणप्राप्तानामनुपलम्भात् , भूतले घटवत" [
इत्यादेश्च नढावस्थापनयोगम्य दर्शनान । भवत्येव तादृशादपि 'ततः सम्बन्धबलात् तस्य व्यवस्थापनमिति चेत ; न तद्वलम्य प्रत्यक्षादवगतिः ; अद्यापि तस्या
व्यवस्थितत्वात । व्यवस्थितमेव नन स्वतोऽपि तस्य तस्वव्यवस्थिते: "प्रत्यक्षं कल्पनापोडं १. प्रत्यक्षेणैव सिध्यति ।" [प्र०वा. २।१२३] इनि वचनादिति चेत; किमिदानीमनुमानेन ? व्यामोहविच्छेद इति चेन् , सति व्यामोहे कथं व्यवस्थितत्वम् अतिप्रसङ्गात् ? तन्न ततस्तदव. गमः । नापि तद्विकल्पात् ; तस्य तदवगमात्पूर्वं विकल्पान्तरवदप्रमाणत्वात् । तदवगमे प्रमाणत्वमिति चेत् ; न ; परस्पराश्रयात्-तदवंगमात्प्रामाण्यम् सति च तस्मिंस्तदवगम इति ।
नापि तद्विकल्पान्तरात ; तत्राप्येवं प्रसङ्गादव्यवस्थितिदोपाच्च । ततो विकल्पवलादेव विकल्पानां १५ वितथार्थत्वं प्रत्यक्षतत्त्वञ्च व्यवस्थापयतां (ता) न सर्वथा विनथार्थत्वमभ्युपगन्तव्यम् । तथा
च सिद्धं नीलादिविकल्पस्यापि सत्यार्थत्वं निरुपद्रवत्वादिति तस्यैव तत्र प्रामाण्यं निरपेक्षतया तव्यवसायं प्रति साधकतमत्वात , अविसंवादनियमाञ्च, न निर्विकल्पस्य विपर्ययादिति प्रत्यक्षाभासमेव तत्, न प्रत्यक्षम् , इत्ययुक्तं परकीयं तल्लक्षणमिति भावो देवस्य । प्रतिषिद्धमेव
मविकल्पकमिन्द्रियप्रत्यक्षम् । २० इदानीं मानसमपि तत्प्रत्यक्षं प्रतिषेधं कारिकापादत्रयेण परप्रसिद्धं तत्स्वरूपमुपदर्शयति
अक्षज्ञानानुजं स्पष्टं तदनन्तरगोचरम् ॥१६०॥ प्रत्यक्षं मानसं चाह [भेदस्तत्र न लक्ष्यते ।] इति ।
आह धर्मकीर्तिः । किम् ? प्रत्यक्षम् । कीदृशम् ? मानसं मनसः पूर्वज्ञानादागतं न केवलमैन्द्रियमेवेति । चशब्दः मानसत्वमेव दर्शयति । अक्षज्ञानं चक्षुरादिकार्य २५ रूपादिप्रत्यक्षं तस्य कार्य यदनुजं तत्सदृशतयोत्पन्नम् अनोः सादृश्यार्थत्वात् तत् अक्षज्ञाना
नुजम् । अनुजपदेनाक्षज्ञानमानसयोरुपादानोपादेयभावमावेदयति, हेतुफलयोस्सादृश्यनिबन्ध नस्य तद्भावस्य परैरभ्युपगमात् । स्पष्टं विशदम् अन्यथा प्रत्यक्षत्वानुपपत्तेः । प्रत्यक्षत्वे निमित्तमाह-तस्यामज्ञानार्थस्यानन्तरो द्वितीयो नीलादिक्षणोऽवज्ञानसमसमयो गोचरो विषयो यस्य तत्तथोक्तम् । कथं पुनस्तच्छब्देनाक्षज्ञानार्थस्य परामर्शः ? कथञ्च न स्यात् ? अप्रक्रमात,
१ अनुमानविकल्पात् । २ प्रत्यक्षम् । ३ स्वत एव । ४ स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तत् मनोविज्ञानम्।"-न्यायबि.पृ०१७प्र.पा.२२४३ ।