________________
१।१६० ].
प्रथमः प्रत्यक्ष प्रस्ताव
५२३
व्यावृत्तिः द्विचन्द्रादिज्ञाने तस्यापि तत्साहचर्यावलोकनात् ? तथा च विकल्पानामेव वस्तुविवेकशक्तिवैकल्यं नेन्द्रियबुद्धेरिति कुतः प्रतिपद्येमहि ? यतस्तत्प्रभावात् क्षणभङ्गादिवस्तुयाथात्म्यमवबुद्ध्यमानाः पुरुषार्थसिद्धो बुद्धिमवस्थापयेम' । निर्बाधस्यैवेन्द्रियज्ञानस्य सत्यार्थत्वम्, न च तस्य विपक्षेण साहचर्यं तदयमदोष इति चेत्; न; विकल्पेऽपि समानत्वात् । न हि वस्यापि तन्मात्रस्य तदर्थत्वं बाधावैकल्यविनिश्चयाधिष्ठानस्यैव तदुपगमात् तस्य च ५ दुरवबोधविपचसाहचर्यरूपत्वात् । ततः सूक्तम्- 'सर्वथा' इत्यादि ।
द्वितीयमपि विकल्पार्थवैतध्यवादिनः साहसमाह- तत इत्यादि । ततस्तेभ्यो वितथार्थेभ्यो विकल्पेभ्यः तत्त्वव्यवस्थानं तत्त्वेन प्रमाणत्वेन व्यवस्थानं निर्णयः । कस्य ? प्रत्यक्षस्य नीलादिदर्शनस्य "यत्रैव जनयेदेनाम्" [ ] इत्यादिवचनात् इति साहसम् । तथा हि
निश्चयाद्वितथार्थाच्चेत्प्रमाणं नीलदर्शनम् ।
मरीचिदर्शनं किन्न तोयनिर्णयतो भवेत् ? ॥ ११८९ ॥ एकत्वाध्यवसायस्याभावाद् दृश्यविकल्प्ययोः ।
इति चेत्सोऽपि मिध्यार्थस्तद्विशेषकरः कथम् ? ॥ ११९०॥ तदर्थस्यापि दृश्यैकत्वेन निश्चयतो यदि । नास्यापि वितथार्थस्य प्राच्यदोषानतिक्रमात् ॥ ११९१ ॥ एकत्वाध्यवसायस्य तत्राप्यन्यस्य कल्पनम् । अनवस्थालतानागपाशबन्धान्न मुच्यते ।। ११९२ ॥ स्यान्मतं व्यवहारेण प्रमाणं नीलदर्शनम् । व्यवहारे विचारश्च न कार्यस्तत्क्षयागमात् ॥११९३॥ केवलं स यथा लोके तथैव ह्यनुमन्यताम् । व्यवहारार्थिभिस्तत्त्वज्ञैरपीति तद्द्व्यसत् ॥ ११९४ ॥ नीलदर्शन निर्णीति तदर्थैकत्वनिश्चयः ।
इत्यस्य व्यवहारस्य लौकिकेष्वप्रवेदनात् ॥ ११९५॥ अस्त्येवायं विमोहात्तु भवन्तो न वदन्ति चेत् । विमोहो निश्चयाधीने व्यवहारे कथं भवेत् ? ॥ ११९६॥
विमोहस्य बलीयस्त्वादाहार्यस्येति चेदयम् ।
शास्त्रेणापि निवर्तेत कथमेवं यदुच्यते ॥ ११९७ ॥ "प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम् ।" इति ।
,
१ - येमहि नि-आ०, ब०, प० । २ - प्रस्यातद-आ०, ब०, प० । ३ प्र० वा० १७ ।
१०.
१५
२०