________________
म्यायविनिश्चयविवरणे
[१९६० सर्वथा वितथार्थत्वं सर्वेषामभिलापिनाम् ॥१५९॥
ततस्तत्त्वव्यवस्थानं प्रत्यक्षस्येति साहसम् । इति । सर्वथा सर्वेण स्वलक्षणप्रकारेण सामान्यप्रकारेण च वितथार्थत्वं मिथ्यार्थत्वं सर्वेषां लिङ्गजानामन्येषाञ्च निरवशेषाणाम् अभिलापिनां विकल्पानाम् इति एवं साहसम् अनालो. ५ चितं चेष्टितं प्रमाणाभावादिति भावः । तथा हि-स्वतो वा तेषां मिथ्यार्थत्वमवगम्येत ,
अन्यतो वा ? स्वतश्येत् ; तेन यदि मिथ्यार्थत्वं सत्यार्थत्वमेव नीलादिना भवेत् गत्यन्तरासम्भवात् । सत्यार्थत्वं चेत् ; न ; सर्वथा वितथार्थत्वप्रतिज्ञाविरोधात् । अस्तु नीलादिनैव वितथार्थत्वम् , न वितथार्थत्वेनापि , कथञ्चिदेव तदङ्गीकारादिति चेत् ; कथमेवं प्रधा.
नादिना वितथार्थत्वेऽपि नीलादिना सत्यार्थत्वन्न भवेत् ? यत इदं सूक्तं स्यात-"वितथा १० नीलादिविकल्पा विकल्पत्वात् प्रधानादिविकल्पवत् ।" [ ] इति । स्वतोऽपि
वितथार्थत्वावगमे च किमर्थमिदमनुमानम् ? समारोपव्यवच्छेदार्थम् , सत्यार्थसमारोपस्यानेन व्यवच्छेदादिति चेत् ; न ; तस्यैव तत्त्वानुपपत्तेः । न हि स्वयं वितथार्थत्वमवगच्छत एव विपरीतारोपत्वं विरोधात् । अन्यस्य तत्र तत्त्वमिति चेत् ; न; तस्यापि स्वत एवारोप्याकारेण
मिथ्यार्थत्वस्यावगमात् । अवगत तद्रूपस्याव्यवच्छेदेऽपि न दोषः, पुरुषार्थप्रतिबन्धाभावात । १५ तत्राप्यन्यस्य तदारोपत्वकल्पनायामनवस्थापत्तिः । तन्न स्वतस्तेषां वितथार्थत्वावगमः । नापि
परतः, प्रत्यक्षस्य तत्राव्यापारात् । न हि तेन विकल्पानां प्रतिपत्तिः सामान्यविषयत्वापसेः, तेषां सामान्याकारत्वात् । तथा चेत् ; व्याहतमेतत् -"प्रमाणं द्विविधं प्रमेयद्वैविध्यात् [प्र० वार्तिकाल० २।११२] इति । न च तदप्रतिपत्तौ तद्धर्मस्य परिज्ञानम् ; तस्य तत्प्रतिपत्तिनान्त.
रीयकत्वात् । नापि परतो विकल्पात् ; तस्याप्रामाण्यात् । प्रमाणमेव लिङ्गजो विकल्प इति २० चेत् ; कुत एतत् ? साध्यप्रतिबन्धादिति चेत् ; न; साध्यस्यैव व्यवस्थितस्याभावात् । भावेऽ.
पि कुतः प्रतिबन्धस्य परिज्ञानम् ? तत एव विकल्पादिति चेत् ; तथा साध्यस्यैव ततः किन परिज्ञानम् ? तस्यावस्तुविषयत्वादिति चेत् ; प्रतिबन्धस्यापि न स्यादविशेषात् । अवस्त्वेव प्रतिबन्ध इति चेत् ; न; अवस्तुतया वस्तुत्वात् , अन्यथा तथा निर्धारणायोगात् । प्रतिबन्धेऽपि
प्रतिबन्धादेव तस्य प्रामाण्यं न परिज्ञानादिति चेत् ; न; तत्रापि कुत इत्यादेरावृत्तेरव्यवस्थि. २५ तेश्च । तन्न तत एव तत्परिज्ञानम् । नाप्यन्यतः तद्विकल्पात ; तस्यापि प्रतिबन्धादेव प्रामाण्यात् , तत एव च तत्परिज्ञानस्यासम्भवात् । अन्यतस्तद्विकल्पात् तत्परिकल्पनायां चापरिनिष्ठानात ।
किं वा तद्वितथार्थत्वप्रतिबद्ध लिङ्ग यतस्तदनुमानविकल्पः ? विकल्पत्वमेवेति चेत् ; कुतस्तस्य सत्यार्थत्वाद् व्यावृत्तिः यतोऽनैकान्तिकत्वन्न भवेत् ? प्रधानादिविकल्पे तद्विपर्ययेण माहचर्यदर्शनादिति चेत् ; न ; तन्मात्रात्तदनुपपत्तेः, कथमन्यथेन्द्रियज्ञानत्वस्यापि न ततो
१ अभिलापाना-आ०, ब०,५०। २ तथापि आ०, ब०, प० । ३ "मानं द्विविधं मेयद्वैविध्यात्.."प्र.वा.'२।१। ४ विकल्पान्तरस्या-आ०, ब०, प.। ५ तदा आ., ब०, ५०। ६ विकल्पस्य । ७ साहचर्यमात्रात् ।