________________
२।१५९ ]
प्रथमः प्रत्यक्ष प्रस्तावः
५२१
"
. प्रमाणान्तरप्रवृत्तिः ? दर्शनपाटवादेरुभयत्राविशेषादिति निरूपितत्वात् । अपेक्षणे च निश्चयस्य तस्यैव मुख्यं प्रामाण्यं भवेत् स्वार्थ व्यवसायं प्रत्यनपेक्षत्वेन साधकतमत्वात् न प्रत्यक्षस्य विपर्ययात् | अविसंवादस्यापि तदायत्तत्वात् सत्येव हि तस्मिन्नीलादौ तदवलोकनात् असति चक्षणादौ सत्यपि प्रत्यक्षे विपर्ययात् । इदमेवाह
,
पटीयसाम् ।
अविसंवाद नियमादक्षगोचरचेतसाम् । इति ।
;
न;
अक्षेभ्यश्चक्षुरादिभ्यो यानि गोचरचेतांसि विषयज्ञानानि तेषां पटीयसां व्यवसायात्मनाम् अविसंवादस्य नियमः तेषामेवास्ति तेषामस्त्येवेति चावधारणम्, तस्मात् | अविकल्पकं प्रत्यक्षाभम् इति । न हि तेषामेवावधारितोऽविसंवादो निर्विकल्पस्य, विरोधात् । न च तमन्तरेण प्रामाण्यम् तस्य तेन व्याप्तत्वात् अन्यथाऽतिप्रसङ्गात् । न १० Start प्रत्यक्षत्वम् इत्युपपन्नम् अविकल्प कमित्यादि । न च तेषामप्रामाण्यम्; अविसंवादस्य तत्रावश्यम्भावात् । द्विचन्द्रादिचेतसां तु व्यवसायत्वमेव नास्ति विधूतबाधस्यैवावसायस्य व्यवसायोपपत्तेः । कथं पुनः व्यवसायरूपत्वे तच्चेतसामविकल्पकत्वम्, विकल्पविशेषस्यैव व्यवसायत्वात् ? असति चाविकल्पे क्वेदं प्रत्यक्षाभत्वचिन्तनम् ? स्वसंवेदनादाविति चेत्; न; तस्यापि भवन्मतेन ताद्र्याविशेषात्, अन्यथा प्रामाण्यानुपपत्तेरिति चेत्; सत्यम् ; नास्त्येव १५ तेषामविकल्पकत्वं तदप्रतीतेः, त्रिकल्पानुत्पादाश्च । न ह्यविकल्पाद्विकल्पोत्पत्तिः । भक्त्येव तत्संस्कारसहायादिति चेत् ; तदाकारस्यापि तत्संस्कारसहायादनाकारादेव ततो भावप्रसङ्गात्, तथा च कथं विकल्पबुद्धायाकारलेशदर्शनात् दर्शनेऽपि तत्कल्पनम् ? तत्कल्पने वा विकल्पकल्पनमपि स्यादविशेपादिति न तेपामविकल्पकत्वम् | अविकल्पकस्य प्रत्यक्षाभत्वचिन्तनं तु पराऽभ्युपगमप्रसिद्धस्यैव न वस्तुबलप्रवृत्तस्य तत्र तदनुपपत्तेः । अथ किमर्थमत्र बहुवचनम्, एकवचन- २० मेवास्तु शास्त्रव्यवहारस्य तथैव बाहुल्यात्, यथा “व्यवसायात्मनो दृष्टे :" [सिद्धिवि० परि० १] इति, "प्रमाणस्य फलम् ” [सिद्धिवि० परि० १] इति च, छन्दोभङ्गस्याप्यभावादिति चेत् ? न; तस्य युगपद्भावदर्शनबहुत्वनिवेदनेन तद्विकल्पबहुत्व निवेदनार्थत्वात् । विकल्पजननाद्धि प्रत्यक्षप्रामाण्ये शष्कुली भक्षणादौ युगपद्धाविरूपादिदर्शनजन्मनां विकल्पानामपि यौगपद्यप्रसङ्गः, कारणयौगपद्ये कार्यक्रमायोगात् “नाक्रमात् क्रमिणो भावा:" [ प्र०वा० १1४५ ] इत्यस्य २५ विरोधात् । न चैक एव तज्जन्मा विकल्प:; तद्वशाद्रूपादिदर्शनानामन्यतमस्यैव प्रामाण्यप्रसङ्गात् । एकस्याप्यनेकाकारत्वान्नेति चेत ; न; युगपदेकस्यानेका भिलाप्याकारत्वे अनेक विकल्पेन किमपराद्धं यतः स एव युगपन्न भवेन् ? तथा च कथम् अश्वविकल्पयौगपद्यात् गोदर्शनस्य निर्विकल्पेत्वं विकल्पत्वेऽपि तदविरोधात् रूपादिविकल्पवत् । तन्न विकल्पजननात् प्रत्यक्षप्रामाण्यम् ; विकल्पस्यैव मुख्यतस्तदुपनिपातात् । विकल्पानामयथार्थत्वान्नेति चेत्; अत्राह
३०
و
१ –मैथ नास्ति ते-आ०, ब०, प० । २ -त्वभविक - आ०, ब०, प० ।
६६