________________
सरवन्यायविभाकरे
[ तृतीयकिरणे विभाव्यते तर्हि रूपं चक्षुर्ग्रहणलक्षणं ग्राह्यम् । रूपव्यतिरेकेण पुद्गलानामनुपलब्धेर्द्रव्यार्थादेशतो रूपपरिणामात्पुद्गलद्रव्यमभिन्नं, पर्यायार्थादेशाच्च कथञ्चिद्भेदः ततश्च कथश्चिद्भेदाभेदसम्बन्धेन रूपवत्त्वं पुद्गलद्रव्यस्य लक्षणं बोध्यम् । मूर्तिमत्त्वस्य रूपवत्त्वस्य च प्राप्त्यर्थं
सर्वसंसारिजीवग्रहणयोग्यस्पर्शवत्त्वलक्षणं विहाय रूपवन्त इत्युक्तं, तेन यद्रूपवद्र्व्यं तन्मूर्ति5 मदिति लभ्यते, यद्यपि स्पर्शरसगन्धा अपि मूर्ति न व्यभिचरन्ति तथापि स्पर्शादिशब्दानभिधेयत्त्वात्तल्लाभो न भवेदेवेति तल्लाभार्थमेव तथोपादानम् । एतेन सर्वत्र रूपरसगन्धस्पर्शानां सत्त्वेन केषाश्चिदेव परमाणूनां रूपवत्त्वं केषाञ्चिदेव गन्धवत्त्वं रसवत्त्वं स्पर्शवत्त्वमिति भिन्नजातीयत्वं परमाणूनां व्युदस्तं, यत्र रूपपरिणामस्तत्र सर्वत्र स्पर्शरसगन्धानां सत्त्वादु
स्कटानुत्कटभेदेन च गुणानामुपलब्ध्यनुपलब्ध्युपपत्तेरिति । 10 एवञ्च पुद्गलमात्रस्य रूपरसगन्धस्पर्शवत्त्वाद्रूपवत्त्वमिव रसवत्त्वगन्धवत्त्वस्पर्शवत्त्वरूपाणि व्यभिचारादिविधुराणि लक्षणानि सम्भवन्तीत्यभिप्रायेणाह
___ एते रसगन्धस्पर्शवन्तोऽपि । लोकाकाशव्यापिनः । ते च स्कन्धदेशप्रदेशपरमाणुभेदेन चतुर्विधाः ॥
एत इति । पुद्गला इत्यर्थः । कथश्चिद्भेदाभेदादत्रापि मतुप् बोध्यः । अथवा नित्ययोगे 15 मतुप, रूपादिभिर्नित्यसम्बद्धा इत्यर्थः। तेनेन्द्रियसम्बन्धात्पूर्वमपि पुद्गला रूपाद्याकारभाज ___ एव, न केवलं द्रव्यस्वभावा मूर्तिरेव चक्षुरादिग्रहणमासाद्य रूपादिव्यपदेशमश्रुते इति बोध्यम् ।
नन्वेषां पुद्गलानां कावगाहो लोकेऽलोकेऽपि वेत्याशङ्कायामाह-लोकाकाशेति । असंख्येयप्रदेशात्मके लोकाकाश एवावगाहो न त्वलोके, धर्मास्तिकायविरहेण लोकादहिर्गमनासम्भवा
दिति भावः । ननु लोकाकाशेऽपि किं सर्वात्मनाऽवगाहो घटजलाशयवद्वा एकदेशेनोच्यते20 परमाणुर्हि स्वयं प्रदेशरूपः, प्रदेशान्तररहितोऽतस्तस्यैकस्मिन्नेव प्रदेशेऽवगाहः, व्यणुकस्य " परिणामवैचित्र्यादेकस्मिन् द्वयोश्च त्र्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च, एवंक्रमेण चतुरणुकादीनां,
संख्येयासंख्येयानन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेष्ववस्थानमिति । अथैषां स्कन्धादिविभागमाह-ते चेति । पुद्गलास्संक्षेपतोऽबद्धा बद्धाश्चेति द्विविधाः, अबद्धाः
परमाणव एते निरवयवाः, बद्धाश्च स्कन्धाः सावयवाः, स्कन्धापेक्षया देशप्रदेशभेदौ, तत्र 25 स्कन्धः स्थौल्यभावेन ग्रहणनिक्षेपणादिव्यापाराऽऽस्कन्दनात् स्कन्ध इति परमाणुसंघातरूपः ॥
तदाह... कृत्स्नतया परिकल्पितपरमाणुसमूहः स्कन्धः ।। - कृत्स्नतयेति । विशिष्टरचनावान् पूर्णः परमाणुसंधातः स्कन्ध इत्यर्थः, यथा घटादिः,