________________
भ्यायप्रकाश
पुद्गलभेदाः ]
भ्यायप्रकाशसमलङ्कृते देशप्रदेशवारणाय पूर्ण इति, विशकलितपरमाणुव्रजवारणाय विशिष्टरचनावानिति, एतेनावयविनः परमाणुसंघातात् सर्वथा भिन्नत्वं व्युदस्तम् ,नन्ववयवावयविनौ भिन्नौ भिन्नप्रतिभासत्वात्सह्यविन्ध्यवत् , न चासिद्धो हेतुस्साध्यधर्मिणि तत्सद्भावनिश्चयात्। न चानेकपुरुषप्रतिभासविषये एकस्मिन्नर्थे भिन्नप्रतिभासत्वसत्त्वेन व्यभिचार इति वाच्यम् , एकपुरुषापेक्षया भिन्नप्र. तिभासत्वस्य हेतुत्वात् । न चैकेन पुरुषेण क्रमेण दृष्टे एकस्मिन्नेव घटे हेतोस्सत्त्वेन व्यभि- 5 चार इति वाच्यम् , भिन्नलक्षणत्वे सत्येकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेत्वर्थत्वात् , अस्ति हि घटकपालादौ विभिन्नलक्षणत्वं भिन्नप्रतिभासत्वश्च । न च ययोन तादात्म्यं न तयोरभिन्नदेशत्वं, यथा सह्यविन्ध्ययोः । अभिन्नदेशत्वञ्चावयवावयविनोस्ततस्तादात्म्यमेवेति वाच्यम् , अवयवावयविनोरभिन्नदेशत्वासिद्धेः, घटादेहि कपालो देशस्तस्य च तदवयव इति देशस्य भिन्नत्वमेवेति । न च कथञ्चित्तादात्म्यस्य प्रत्यक्षतः प्रतीतेस्सर्वथा भेदपक्षो बाधित इति वाच्यम् , भेद- 10 स्यैव पूर्वसिद्धत्वात् तादात्म्यस्य पूर्वसिद्धत्वाभावात् , कार्यकारणत्वधर्मधर्मित्वाधिकरणाधेयत्वविभिन्न क्रियात्वादिभिर्भेदस्य सिद्धेस्तस्मादवयवावयविनोर्भेद एवेति चेन्मैवम् , वृत्त्यनुपपत्तेः, सा हि वृत्तिः प्रत्याश्रयमेकदेशेन सर्वात्मना वा स्यात् , तत्र न ह्येकस्य प्रत्याश्रयमेकदेशेन वृत्तित्वं, निरंशत्वात् , नवा सामस्त्येन, अवयविनां बहुत्वापत्तेः स्वावयवेषु प्रत्येकं सर्वात्मना वर्तमानत्वात् , न चाप्यवयविनः प्रदेशवत्त्वं न्याय्यं, तत्रापि वृत्तिविकल्पेनानवस्थानात् , एकदेश- 15 सर्वात्मभिन्नवृत्तिताया अप्रसिद्धत्वात् । न च समवाय एव प्रकारान्तरं वर्त्तत इति वाच्यम् , समवैतीति समवाय इति सम्प्रत्ययात् तत्रापि प्रत्याश्रयमेकदेशेन सर्वात्मना वेति विकल्पस्य निष्प्रत्यूहत्वात् , तत्र च दोषस्योक्तत्वात् । तस्मादवयविनः स्वाश्रयेभ्यो नैकान्तेन भेदस्तत्र वृत्त्युपलब्धेः । यतो यस्यैकान्तभेदस्तत्र तस्य न वृत्त्युपलब्धिर्यथा विन्ध्यस्य हिमवति । स्वाश्रयेषु त्ववयव्यादेवृत्त्युपलब्धेनैकान्तेनान्यत्वम् । अतस्सर्वथा भेदस्य बाधितत्वेन भिन्न- 20 प्रतिभासत्वहेतोः कालात्ययापदिष्टत्वम् । न च घटे ततस्सर्वथा भिन्नस्यापि जलस्य वृत्त्युपलध्या व्यभिचार इति वाच्यम् । तत्र वृत्तेसंयोगस्य परिणामविशेषस्य संयोगिभ्यां घटजलाभ्यां सर्वथा भेदासिद्धेः । अन्यथा संयोगाभावप्रसङ्गात् । ताभ्यां हि भिन्नस्य संयोगस्योत्पत्ती जलस्य कथं घटे संयोग इति व्यपदेशो यत्तस्स तत्रैव वृत्तिर्भवेत् । संयोगस्य ताभ्यां जननात्तथा व्यपदेश इति तु तस्य कालादितोऽपि जननात्तत्रापि तथा व्यपदेशप्रसङ्गतो व्युदसनीयः । 25 तस्मान्न संयोगिभ्यां संयोगोऽर्थान्तरभूत इति नोक्तहेतौ व्यभिचारः, सर्वथाऽर्थान्तरभूतस्य
१ कार्यकारणादिभेदस्य सर्वैः स्वीकृतत्वेन पूर्वसिद्धत्वादित्यर्थः । २ तत्प्रत्यक्षस्य विवादापनत्वेन तादा- . त्म्ये साध्ये हेतौ संदिग्धासिद्धरित्यर्थः। ३ एकस्यावयव्यादेर्भागाभावेमानेकत्रावयवादौ वृत्तिने भवतीति भावः ।