________________
। ५० तस्वन्यायविभाकरे
[ तृतीयकिरणे क्वचिदपि वृत्त्यनुपलब्धेन विरोधोऽपि । ननु तवयवावयव्यादीनां का वा वृत्तिरिति चेत्कथञ्चित्तादात्म्यमित्युच्यते, न च तथासति तवापि वृत्तिविकल्पदोषप्रसक्तिरिति वाच्यम् , पदार्थानां भेदाभेदशबलैकवस्तुस्वरूपत्वेनावयवादिभ्योऽवयव्यादेस्तादात्म्यस्याशक्यविवेचनत्वेन तदोषानवकाशात् । एवमेव गुणगुणिनोः क्रियाक्रियावतोस्सामान्यतद्वतोरपि वृत्त्युपपत्तिर्बोध्येति दिक्।। 5 अथ देशमाह
प्रदेशादर्वाचीनस्कन्धभागा देशाः ॥
प्रदेशादर्वाचीनेति । अयम्भावः, व्यणुकादिक्रमेणानन्तानन्तपरमाणुकावसानाः संघातविशेषात्समुत्पन्ना बहवस्स्कन्धा भवन्ति, तत्र स्वेषु स्वेषु स्कन्धेषु प्रदेशात्मकमेकं परमाणु
पूर्णश्च स्कन्धं विहाय तदपृथग्भूता द्विव्यादिपरमाणुसंघाता देशा उच्यन्ते, न तावत्तदपृथग्भूत 10 एकः परमाणुर्देशस्तस्य प्रदेशत्वात् , यथा घटस्य ग्रीवोदरपृष्ठादयो देशाः। तत्पृथग्भूतानान्तु ग्रीवादीनां स्कन्धान्तरत्वमेवेति ॥ अथ प्रदेशमाह
केवलप्रज्ञागम्यस्कन्धानुवर्तिसूक्ष्मतमो भागः प्रदेशः ॥
केवलप्रक्षेति । योऽयं भागोऽतितरां सूक्ष्मः स्कन्धादपृथग्भूतः केवलप्रज्ञयैव गम्यस्स प्रदेश 15 इत्यर्थः । यथा घटस्यापृथग्भूतस्सुसूक्ष्म एकः परमाणुभागः । स्कन्धोऽयं भेदात्सङ्घाताद् भेद
सङ्घाताभ्याश्च जायते, तत्र भेदः संहतानां बाह्याभ्यन्तरपरिणामकारणसन्निधाने सति विदारणं, यथा पूर्णस्कन्धादेकस्याणोर्भेद एकाणुभेदात्तन्न्यूनस्कन्धो जायते, एवं द्विव्यादिपरमाणुभेदक्रमेण यावविप्रदेशस्कन्धैर्भाव्यम् । पृथग्भूतानामेकी भावः संघातः, यथा द्वयोः परमाण्वोस्संघातात् द्विप्रदेशो द्विप्रदेशस्याणोश्च संघातात्रिप्रदेशस्स्कन्ध इत्यादिप्रकारेण जायते, एकसामयिका20 भ्यां भेदसंघाताभ्याञ्च द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते यथाऽन्यस्य परमाणोस्संघातेनान्यतः
स्कन्धाद्भेदेनेति । एवं परिप्राप्तबन्धपरिणाम एव स्कन्धः, तत्र च केषाञ्चित्स्कन्धानां बन्धो जीवव्यापारसम्प्रयुक्तो यथौदारिकशरीरजतुकाष्ठादिविषयः । केषाश्चित्स्कन्धानां प्रयोगनिरपेक्षो वैस्रसिक आदिमदनादिमद्भिन्नः, तत्राद्यो विद्युदुल्कामेघादिविषयः स्निग्धरूक्षगुणनिमित्तः,
अपरश्च धर्माधर्माकाशविषयः, केषाश्चिच्च स्कन्धानां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणति25 लक्षणो यथा स्तम्भकुम्भादिविषयः । तथा स्कन्धा अन्त्यस्थौल्या आपेक्षिकसौम्यस्थौल्या
इत्थमनित्थंसंस्थानाच, यथा निखिललोकव्यापी महास्कन्धोऽन्त्यस्थूलतावानवयवविकासमपेक्ष्यैवं बोध्यम् , प्रवचने त्वस्य सूक्ष्मपरिणामत्वमुक्तम् । बदरादौ चामलकापेक्षया बदरं सूक्ष्म