________________
,
परमाणुचर्चा ]
न्यायप्रकाशसमलङ्कृते
: ५१ :
चणकापेक्षया च स्थूलमिति, वृत्तत्र्यत्रचतुरस्राऽऽयतपरिमण्डलादिरूपमित्थं संस्थानं, ततोऽन्यदनित्थं संस्थानं, वृत्तादिरूपेण निरूपयितुमशक्यत्वादिति ॥
अथ परमाणुमादर्शयति
स एव पृथग्भूतश्चेत्परमाणुरिति व्यवह्रियते । अयं परमाणुस्सर्वा - न्तिमकारणं द्रव्यानारभ्यः कार्यलिङ्गकश्च ॥
5
स एवेति । प्रदेश एवेत्यर्थः, स्कन्धादिति शेषः । एतेन परमाणोर्भेदादेवोत्पादोन संघातान्नापि भेदसंघाताभ्यामिति सूचितम् । इदच पर्यायनयाभिप्रायेण कार्यत्वोपवर्णनं विज्ञेयम्, स्नेहरौक्ष्यादिविगमात्स्थितिक्षयतो द्रव्यान्तरेण भेदात्स्वभावगत्या च द्व्यणुकादिस्कन्धभेदादुपजायमानत्वात् । द्रव्यनयापेक्षयात्वाह - अयमिति । सर्वान्तिमकारणमिति, सर्वेषां द्र्यणुकादिद्रव्याणां कारणं, सर्वमेव हि द्रव्यं विदार्यमाणमसंभवद्भेदपरमाणुपर्यवसानं जायते, न 10 पुनरत्यन्ताभावरूपं निरुपाख्यमिति भावः । द्रव्यानारभ्य इति, स्वतो द्रव्यावयवद्वारेणाभेद्यः, द्रव्यान्तरावयवद्रव्यभिन्नत्वात् । रूपादिभिस्तु स्याद्भेदवान्, न च परमाणुरसन् निष्प्रदेशत्वाद्गगनकुसुमवदिति वाच्यम्, सावयवद्रव्याभावात् सावयवप्रतिक्षेपेण चावश्यमनवयवेन सता वस्तुनैव भवितव्यं स चादिमप्रदेशोऽणुरित्युच्यते, न च परमाणुः सावयवः संस्थानित्वात् कलशादिवदिति वाच्यम्, असिद्धेः, संस्थानस्य द्रव्यावयवप्रयुक्तत्वाद्द्रव्यावयवा - 15 सिद्धौ तदसिद्धेः, नाप्यसन्परमाणुरसंस्थानित्वादिति वाच्यम्, आकाशादौ व्यभिचारात् । तथा च परमाणुर्द्रव्यात्मना स्यान्निरवयवो भावात्मना च स्यात्सावयवः, रूपाद्यवयववत्त्वात् तथा द्रव्यार्थादेशात्स्यात्कारणं, पर्यायार्थादेशाच्च स्यात्कार्यं स्कन्धभेदादुपजायमानत्वादत एव च स्यान्नित्यमनित्यश्च । कार्यलिङ्गकश्चेति । अणूनामस्तित्वं कार्यलिङ्गादवसेयं, कार्यलिङ्गं हि कारणं, नासत्सु परमाणुषु शरीरेन्द्रियमहाभूतादिलक्षणस्य कार्यस्य प्रादुर्भावः । ननु सर्वा- 20 न्तिमकारणत्वेन परमाणोर्निरवयवत्वात्कथमणुकयोः संहतौ द्व्यणुकरकन्धो जायते, संश्लेषासंभवात्, संश्लेषो हि तयोरेकदेशेन सर्वात्मना वा स्यात्, नाद्यः सावयवत्वापत्तेः, नान्त्यः सकलस्यापि जगत एकपरमाणुमात्रत्वापत्तेरिति चेन्न, अनेकवस्तुविषये निरवशेषाभिधायित्वेन प्रसिद्धस्य सर्वशब्दस्य द्रव्यात्मनैकस्मिन् परमाणौ प्रयोगासम्भवात् । एकदेशशब्दस्यापि नानात्वेन निश्चितस्यपदार्थस्य कस्यचिद्भागाभिधायिनो निर्भागपरमाणुविषये प्रयोगासंभवाच्च । 25 स्वयं ह्यवयवभूतः परमाणुः परमाणुना सह भेदेन योगमायाति, न त्वण्वन्तरमाविशति, तस्य सक्रियत्वेन परमाणुस्थाकाश एवाऽऽवेशनात्, न च परमाणावना वेशे योगो न संभवति द्व्यङ्गु
१ द्रव्यपर्यायार्थादेशत इत्यर्थः ।