________________
बुललक्षणम् ]
न्यायप्रकाशसमलङ्कृते ।
: ४७ :
परिणामविशेषो यथा वर्त्तमानत्वमतीतत्वमनागतत्वश्चेति, आकाश प्रदेशावल्यामङ्गुली वर्त्तते अतीताऽनागता चेति अङ्गुलीनिष्ठा वर्त्तमानत्वातीतत्वानागतत्व पर्यायाः कालाश्रयाः क्रियारूपा द्रव्यस्य, समयानाश्रयत्वेऽतीत एव वर्त्तमानोऽनागतश्च स्यात्, एवमनागतो वर्त्तमानश्च सङ्कीर्येत, न चैतदिष्टम्, ततश्च समयभेदेन भूतसमयराश्यपेक्षया भूता अङ्गुल्यादीनां क्रियाः, वर्त्तमानसमयापेक्षया भवन्त्यः, अनागतसमयराश्यपेक्षया भविष्यन्त्यः क्रियाः पर्याया 5 उच्यन्ते सा क्रिया त्रिधा प्रयोगविस्रसामिश्रजन्यभेदात्, तत्र प्रयोगजा जीवक्रियापरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्श संस्थानविषया, विस्रसाजन्या प्रयोगमन्तरेण केवलमात्मद्रव्यपरिणामरूपा, परमाण्वन्द्रधनुः परिवेषादिरूपा विचित्रसंस्थाना च, मिश्रजन्या तु प्रयोगविस्रसाभ्यामुभयपरिणामरूपत्वाज्जीवप्रयोगसहचरिता चेतनद्रव्यपरिणामा कुम्भस्तम्भादिविषयेति बोध्या । एवंरूपत्वेऽपि क्रियायाः पदार्थानां भूतत्त्रभविष्यत्व वर्त्तमानत्व - 10 विशिष्टा गतिक्रियारूपाः क्रियापर्यायत्वेन ग्राह्याः, कालानुकूलत्वात् । अथ परिणाममाहप्रयोगेति । स्पष्टं तदुक्तं " द्रव्याणां या परिणतिः प्रयोग विस्रसादिजा | नवत्वजीर्णताद्या च परिणामस्स कीर्तित " इति । यद्यपि परिणामः क्रियाविशेष एव तथापि परिणामेन स्थितेस्सङ्ग्रहात्क्रियातो भेदेनोत्कीर्तनम् । न च परिणाम एवोच्यतां किं क्रियया, तस्या अपि तत्रान्तर्गतत्वादिति वाच्यम् । द्रव्याणां द्वैविध्य प्रकाशनाय तदुपादानात् द्रव्यं हि द्विविधं 15 परिस्पन्दरूपम परिस्पन्दरूपमिति, तत्र परिस्पन्दः क्रिया, अपरिस्पन्दः परिणाम इति ॥
अथ परत्वापरत्व पर्यायमाह -
यदाश्रयतो द्रव्येषु पूर्वापरभावित्वव्यपदेशस्सः परत्वापरत्व पर्यायः ॥
F
यदेति । कालोपकारप्रकरणात्कालकृते परत्वापरत्वेऽत्र ग्राह्ये न क्षेत्रप्रशंसाकृते, बालवृद्धयोः पुरुषयोः सन्निकृष्टे पर इति विप्रकृष्टेऽपर इति व्यवहारः कालकृतपरत्वापरत्वाभ्यां 20 भवतीति पूर्वापरभावित्वप्रयोजके परत्वापरत्वे पर्यायविशेषौ कालापेक्षे इति भावः ॥
अथ षष्ठं पुद्गलद्रव्यं निरूपयति
रूपवन्तः पुद्गलाः ॥
रूपवन्त इति । रूपमस्त्येषामेषु वेति रूपवन्तः, पुद्गला इति, अत्र बहुवचनं परमाणुभेदात्स्कन्धभेदाच्च तेषां भिन्नत्वप्रतिपादनार्थम् । अत्र रूपशब्दवाच्या मूर्तिः सा रूपादि - 25 संस्थान परिणामा, रूपरसगन्धस्पर्शैः परिमण्डलत्रिकोणचतुरस्रायतचतुरस्राद्याकृतिभिश्च यः परिणामस्सा मूर्त्तिः । यदि धर्माधर्मसिद्धानां प्रतिविशिष्टसंस्थान परिणामवत्त्वेनातिप्रसङ्ग इति