________________
तत्त्वन्यायविभाकरे
[ तृतीयकिरणे न्तसाधनन्तानादिसान्तानाद्यनन्तभेदभिन्नेषु चतुःप्रकारेष्वेकेनापि केनचित्प्रकारेण द्रव्याणां वर्त्तनं वर्त्तनेत्युच्यते । इयं वर्त्तना प्रतिसमयं परिवर्तनात्मिका, नातो विवक्षितैकवर्तना द्विसमयं यावदपि स्थिति कुरुते । अतो या वर्तनायाः परावृत्तिस्सा पर्यायत्वेनाभिधीयते । भूत5 काले भूता भविष्यति भविष्यन्त्यो वर्तमानकाले च भवन्त्यो या द्रव्याणां
चेष्टास्सः क्रियापर्यायः। प्रयोगविस्रसापरिणामाभ्यां जायमाना नवीनत्वप्राचीनत्वलक्षणा या परिणतिस्स परिणामः ॥
वस्तुतस्त्विति । न द्रव्यात्मक इति, अपि तु पर्यायात्मक इति भावः । तर्हि द्रव्यकाल इति कथमित्यत्राह-किन्विति, तथा च पर्यायपर्यायिणोरभेदोपचारादिति भावः । अथ 10 कालस्वरूपानुपकारभूतान वा वर्तनादीन्निदर्शयति वर्तनादीति । तत्र द्रव्याणां वर्त्तनं वर्तना।
देशान्तरप्राप्त्यादिलक्षणा चेष्टा क्रिया । द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोग जपर्यायस्वभावः परिणामः । यदाश्रयतो द्रव्यं परापरव्यपदेश्यं ते परत्वापरत्वे, परत्वं पूर्वभावित्वमपरत्वं पश्चाद्धावित्वमिति । यद्यपि परत्वापरत्वे प्रशंसाकृते क्षेत्रकृतेऽपि भवतः । यथा परो धर्मोऽपरोऽधर्म इति, अत्र परत्वं ज्ञानत्वमपरत्वमज्ञानत्वं । एकदि15 क्कालावस्थितयोरयं परोऽयमपर इति, अत्र परत्वं विप्रकृष्टत्वं सन्निकृष्टत्वमपरत्वं
बोध्यम् , तथापि कालप्रसङ्गेन पूर्वपश्चाद्भावित्वरूपे एवात्र ग्राह्ये । अथ वर्तनां स्वरूपयति-तत्रेति चतुर्विधेषु पर्यायेष्वित्यर्थः । द्रव्याणां स्थितिश्चतुर्विधा, सादिसान्ता, साद्यनन्ता, अनादिसान्ता, अनाद्यनन्ता चेति । आसु केनचिद्रूपेण द्रव्यस्य वर्तनमि
त्यर्थः, तत्र द्रव्यं चेतनाचेतनभेदाविविधम् । सचेतनस्य सुरत्वनारकत्वतिर्यक्त्वमनुष्यत्व20 पर्यायमधिकृत्य सादिसान्ता स्थितिः । प्रत्येकं सिद्धत्वापेक्षया साद्यनन्ता सिद्धानां । भव्यत्व
माश्रित्य भव्यानामनादिसान्ता, सिद्धत्वप्राप्तौ भव्यत्वनिवृत्तेः । अभव्यत्वमुररीकृत्याभव्यजीवानामनाद्यनन्ता विज्ञेया। अचेतनेषु व्यणुकादिस्कन्धानां सादिसान्ता स्थितिः, उत्कृष्टतोऽप्येकेन द्वयणुकत्वादिपर्यायेण पुद्गलद्रव्यस्यासंख्येयकालमात्रस्थितेः । अनागताद्धाया
भविष्यत्कालरूपाया साद्यनन्ता, अतीताद्धाया अतिक्रान्तकालरूपाया अनादिसान्ता, धर्मा25 धर्माकाशादीनां अनाद्यनन्ता बोध्या । प्रोक्तचतुर्विधस्थित्यन्यतमरूपेण स्वयमेव वर्तमानानां
पदार्थानां समयाश्रया वर्तनशीलता वर्त्तनेति भावः । इयमिति, समयाश्रयेत्यर्थः। तस्मादेव कापि वर्तना न द्विव्यादिसमयवर्तिनी अत एव परिवर्तनशीला तदेव परिवर्तनं पर्याय उच्यत इत्याह-नात इति । क्रियापर्यायमाख्याति-भूतकाले भूता इति । करणं हि क्रिया स द्रव्य