________________
कालप्रकाराः]
न्यायप्रकाशसमलङ्कृते समयं वर्तमानं विवक्षितम् । भावी समयराशियः कालस्सस स्यादनागतः ॥ वर्तमानः पुनवर्तमानैकसमयात्मकः । असौ नैश्चयिकस्सर्वोऽप्यन्यस्तु व्यावहारिकः" ।। इति जम्बूद्वीपप्रज्ञप्तिवृत्त्याद्यभिप्रायः ॥
तत्र नैश्चयिकं कालमाह
वर्त्तनादिपर्यायस्वरूपो नैश्चयिकः । ज्योतिश्चक्रभ्रमणजन्यस्समयाव- 5 लिकादिलक्षणः कालो व्यावहारिकः ॥
वर्तनादीति । वर्तनादिपर्यायैः स्वरूप्यते लक्ष्यते यस्स नैश्चयिक इत्यर्थः, वर्तनादिलिङ्गक इति यावत्, आदिना क्रियापरिणामपरत्वापरत्वानां ग्रहणम् । व्यावहारिकं कालमाह-ज्योतिश्चक्रेति, ज्योतिषां विमानविशेषाणां चक्रं समुदायस्तस्य भ्रमणेन जन्यो व्यङ्गयः, सूर्यादिचारव्यङ्गय इति भावः । समयावलिकादिलक्षण इति, योगिनापि यः कालविशेषो विभक्तुं न 10 शक्यतेऽतिसूक्ष्मत्वात्स कालविशेषः समय उच्यते । असंख्येयसमयसमुदयसमितिसमागमनिष्पन्नाऽऽवलिका । आदिना मुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगपल्यसागरोत्सर्पिणीपरावर्ती ग्राह्याः। एतेषां विशेषो बोधः प्रवचनादवसेयः। कालस्यायं विभागकलाप उपचाराथं कल्पितोऽवसेयः, समयस्यैकत्वेन विभागाभावात् समूहस्य चामुख्यत्वेनैव विभागासम्भवाच्च । परन्तु कालस्य समूहबुद्धयङ्गीकृतस्य विभागो वेदितव्यः ॥
15 अथ कालो नास्तिकायपञ्चकव्यतिरिक्तः किन्तु जीवाजीवद्रव्यपर्याय एव वर्तनादिक्रियारूपः । स च वर्तितुर्भावादनान्तरं कालस्तत्परिणामत्वात् , कलनं संशब्दनं पर्यायाणामिति व्युत्पत्तेः । तथा च तेन तेन रूपेण सादिसान्तादिरूपेण नवपुराणादिरूपेण वा वर्तनैव द्रव्यसम्बन्धित्वाद् द्रव्यकाल उच्यते, जीवाजीवौ वा पर्यायपर्यायिणोरभेदोपचारात् । न खलु वर्तनापरिणामादिभ्यो भिन्नं द्रव्यमस्ति, समयावलिकादिरूपोऽपि नृक्षेत्रगः कालो न 20 जीवाजीवेभ्यो व्यतिरिक्तः, सूर्यादिक्रियैव हि परिणामवती कालो नान्यः । पर्यायरूपत्वेन तस्यैकत्वेऽपि किञ्चिन्मात्रविशेषविवक्षया द्रव्यकालोऽद्धाकाल इत्यादिव्यपदेशः । तस्मात्तदुपचरितं द्रव्यमुच्यत इत्याशयेनाह... वस्तुतस्तु कालोऽयं न द्रव्यात्मकः। किन्तु सर्वद्रव्येषु वर्तनादिपर्यायाणां सर्वदा सद्भावादुपचारेण कालो द्रव्यत्वेनोच्यते। वर्तनादिपर्या- 25 याश्च वर्तनाक्रियापरिणामपरत्वापरत्वरूपेण चतुर्विधाः । तत्र सादिसा