________________
तत्त्वन्यायविभाकरे
[ तृतीयकिरणे बैकसमयरूपत्वात्समुच्छिन्नपूर्वापरकोटित्वादस्तिकायत्वाभावेन प्रदेशशून्यत्वात्प्रागभावप्रध्वंसाभावावस्थयोरसत्त्वेनोत्पादव्ययध्रौव्ययुक्तत्वं गुणपर्यायवत्त्वञ्च कथमिति चेदुच्यते, जिनवचनस्य प्रधानोपसर्जनीकृतेतररूपद्रव्यपर्यायोभयनयावलम्बित्वादेकस्यापि समयस्य निष्प्रदे
शस्य द्रव्यपर्यायावबद्धवृत्तित्वमेव, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्य5 भूतक्रमाक्रमभाव्यनाद्यपर्यवसानानन्तसंख्यापरिणामपर्यायप्रवाहव्यापिनमेकमेवात्मानमात
नोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुतेः सर्वदा ध्रौव्यांशावलम्बनात् , तथा च श्वोभावेन विनश्याद्यत्वे प्रादुर्भवति, अद्यत्वेनापि विनश्य ह्यस्त्वेनोत्पद्यते, कालत्वेन तु श्वोऽद्यह्यःपर्यायेषु संभवित्वादन्वयरूपत्वाद् ध्रुव एवेति, पर्यायार्थतया त्वत्यन्तविविक्तरू
पत्वात्पर्यायाणां प्रत्युत्पन्नमात्रविषयत्वादतीतानागतयोरभावादेव न वृत्तो नापि वय॑न्निति तेन 10 प्रकारेणासत्त्वं, तथा च स्यात्सत्त्वं स्यान्नास्तित्वमिति व्यवस्थानात् गुणपर्यायवांश्च काल इति ।
इत्थमवधृते कालस्वरूपे तत्प्रमाणे च तस्यास्तिकायत्वाभावेन स्कन्धदेशप्रदेशा न सन्ति किन्तु एकविध एव स इत्याह
सच वर्तमानस्वरूप एक एव । सोऽपि निश्चयव्यवहाराभ्यां द्विविधः ॥ . स चेति । वर्तनया लक्ष्यमाणोऽद्धाकाल इत्यर्थः, न तु वर्तनास्वरूपात्मा कालः, तस्य 15 जीवाजीवरूपत्वात् । एक एवेति वर्तमानैकसमयात्मक इत्यर्थः । अस्य द्वैविध्यमादर्शयति
सोऽपीति । वर्तमानैकसमयात्माऽद्धाकालविशेषः-प्रमाणकालोऽपीत्यर्थः । नैश्चयिको व्यावहारिकश्चेति द्विविधः कालस्समयरूप इति भावः । अद्धाकालविशेषः-प्रमाणकालोऽतीतोऽ'
नागतो वर्तमानश्चेति त्रिविधः । तत्र विद्यमानैकसमयात्मको वर्तमानो नैश्चयिकः । तमव-धीकृत्य भूतस्समयराशिरतीतः। तमेव समयं वर्त्तमानमवधीकृत्य यो भावी समयराशिः 20 सोऽनागतः कालः । वर्तमानसमयान्यः सर्वोऽपि कालो व्यावहारिक इति भावस्तदुक्तं
" अद्धाकालस्यैव भेदः प्रमाणकाल उच्यते । अहोरात्रादिको वक्ष्यमाणविस्तारवैभवः । तथा, अत्र प्रमाणकालोऽस्ति प्रकृतस्स प्रतन्यते । अतीतोऽनागतो वर्तमानश्चेति त्रिधा स च ॥ अवधीकृत्य समयं वर्तमानं विवक्षितम् । भूतस्समयराशियः कालोऽतीतः स उच्यते ॥ अवधीकृत्य
१ तत्रानागतः कालोऽनादित्वानन्तत्वाभ्यां समानोऽपि समयाधिकः, वर्तमानसमयस्य तत्र प्रवेशात् , नचातीते कुतो न तस्य प्रवेश इति वाच्यम् । अतीतस्य विनष्टरूपतयाऽविनश्वररूपस्य तस्य तत्र प्रवेशासम्भवात्, किन्त्वविनश्वरेऽनागत एवेति । अतीतः कालश्चानागतकालात्समयेन न्यूनः । केचित्तु अतीताद्धातोऽनागताद्धाया अनन्तगुणत्वं समत्वे चेदानी समयातिकमे समयोना स्यात् , अनन्तगुणत्वे तु नानन्तेनापि कालेन गतेनासौ क्षीयत इति वदन्ति ॥