________________
गगनसिद्धिः
न्यायप्रकाशसमलते त्वमाकाशस्य लक्षणं बोध्यम् । तत्र धर्माधर्मप्रदेशा हि आ लोकान्ताल्लोकाकाशप्रदेशनिर्विभागवर्तित्वेनावस्थिताः, तस्मादन्तरवकाशदानेन धर्माधर्मयोरुपकरोति, धर्माधर्मप्रदेशानामाकाशप्रदेशाभ्यन्तरवर्त्तित्वात् , अलोके च तदसम्भवात् । पुद्गलजीवानान्तु संयोगविभागैश्वोपकरोति तेषां क्रियावत्त्वात् । न चालोकाकाशे लक्षणमिदमव्याप्तमिति वाच्यम्, तत्राप्यवगाहानुकूलावकाशदातृत्वस्वभावस्य सत्त्वात् , अवगाहकाभावादेव नावगाहः, नहि 5 हंसस्यावगाहकस्याभावेऽवगाह्यत्वं जलस्य हीयत इति ॥
अथाऽऽकाशे प्रमाणमादर्शयति
मानन्तु द्रव्याणां युगपदवगाहोऽसाधारणबाह्यनिमित्तापेक्षो युगपदवगाहत्वादेकसरोवर्तिमत्स्यादीनामवगाहवदित्यनुमानम् । लोकालोकभेदेन तद्विविधम् ॥
10 मानन्त्विति । द्रव्याणामिति, अवगाहमानानामित्यादिः । अनेकद्रव्याणामेकदा योऽवगाहस्तस्यैव पक्षत्वसूचनाय युगपदवगाह इत्युक्तं, अन्यथा स्थूलानामेव द्रव्याणां प्रतिघातात् सूक्ष्माणां परस्परावगाहप्रदत्वेन तादृशावगाहेऽसाधारणबाह्यपरमाण्वन्तरसापेक्षत्वस्य सिद्धत्वेन सिद्धसाधनत्वापत्तेः । तथा च सर्वेषां युगपदवगाहं प्रत्यसाधारणं निमित्तं गगनातिरिक्तं न किमपि भवतीत्याकाशसिद्धिः । न चावरणाभाव एव तादृशोऽस्त्विति वाच्यम् , सर्वथाऽधि- 15 . करणानात्मकस्याभावस्यापसिद्धान्तत्वेन तदधिकरणात्मकस्यैवाकाशत्वात् । न चाकाशस्यापि धर्मादीनामिवावगाहदायि द्रव्यान्तरं स्यादिति वाच्यम् ततोऽधिकव्यापिद्रव्यान्तराभावात् । धर्मिग्राहकप्रमाणेन तस्यावगाह्यत्वेनैव सिद्धेश्च । एवमेव यद्यद्रव्यं तत्तत्साधारमिति व्यात्याऽस्ति गगनं द्रव्याणां साधारत्वान्यथानुपपत्तरित्यनुमानादपि सर्वाधारत्वेनाकाशसिद्धिः। न च तस्यापि द्रव्यत्वेन साधारत्वं स्यात्तथा चानवस्थेति वाच्यम् , धर्मिग्राहकमानेनाधार- 20 मात्रस्वरूपतयैव सिद्धेः । न चाकाशे द्रव्यत्वसत्वेऽपि साधारत्वाभावेन व्यभिचार इति वाच्यम् , धर्मिसिद्धेः पूर्वं व्यभिचारास्फुरणात्, तदुत्तरं तत्स्फूर्तरकिञ्चित्करत्वादिति ।।
१ न च धर्माधर्माववाधारौ भविष्यतः किमतिरिक्तेनाकाशेनेति वाच्यम् । तयोर्गतिस्थितिसाधकत्वात् , न ह्यन्यसाध्यं कार्यमन्यः प्रसाधयति, अतिप्रसङ्गात् । न च युतसिद्धानामेव कुण्डबदरादीनामाधाराधेयभावदर्शनादयुतसिद्धानां न धर्माधर्माद्याकाशानामाधाराधेयभाव इति वाच्यम् , युतसिद्धयभावेऽपि पाणौ रेखेत्यादौ तद्दर्शनात् । न चाकाशस्यावकाशदातृत्वे भित्यादिना गवादीनां प्रतिघातो न स्यादिति वाच्यम् , मूर्तानां स्थूलानामन्योऽन्यप्रतिघातात् सूक्ष्माणामन्योन्यप्रवेशशक्तियोगात्, अन्योन्यप्रवेशयोग्यानामवकाशदातृत्वादाकाशस्य तावता सामर्थ्यहानाभावादिति ॥