________________
तस्वन्यायविभाकरे
[ तृतीयकिर
भिप्रायेणाकाशप्रतिष्ठं विज्ञेयम् । धर्मादयो यत्र लोक्यन्ते स लोकः, लोकश्चासावाकाशश्व लोकाकाशस्तं व्याप्नोतीति लोकाकाशव्यापी, धर्माधर्मयोर्लोकाकाशेऽवगाहो न त्वलोक इति भावः ॥
: 19:
अथ यत्र गतिस्तत्रावश्यं स्थितेरपि भावाद्गत्यपेक्षाकारणेनेव स्थितिं प्रत्यप्यपेक्षाकारन केनापि भवितव्यमिति मन्वानस्तादृशद्रव्यसाधनार्थं प्रथमं तत्स्वरूपमाह -
5
स्थित्य साधारण हेतुर्द्रव्यमधर्मः । प्रमाणञ्चात्र जीवपुद्गलानां स्थितिनिमित्तापेक्षा स्थितित्वात्तरुच्छायास्थपान्धवदित्यनुमानम् | असंख्येयप्रदेशात्मको लोकाकाशव्यापी च ॥
स्थित्यसाधारणेति । अत्रापि पूर्ववत् स्थितित्वावच्छिन्न कार्यतानिरूपितासाधारणकार 10 णत्वं लक्षणं पदकृत्यञ्चावसेयम् । स्थितिस्स्वदेशादप्रच्यवनहेतुर्गतिनिवृत्तिरूपा । अधर्मे मानमाविष्करोति प्रमाणचेति, स्थितिपरिणतानामित्यादिः, अन्यथाऽधर्मस्य निर्वर्त्तककारणत्वापत्तेः । बाह्यनिमित्तापेक्षेति, निर्वर्त्तक परिणामिक्रिय । द्वयवन्निमित्तकारणत्रयव्यतिरिक्तकारणान्तरसापेक्षेत्यर्थः । दृष्टान्तमाह - तरुच्छायास्थेति तरुच्छायायां पान्थस्थितिवदिति भावः । प्रदेशेयत्तामाह - असंख्येयेति । अस्याप्याधारं वृत्तित्वञ्चाह - लोकाकाशेति । अत्र पूर्ववदेव 15 विचारो विभावनीयः ।
अथ तृतीयमाकाशद्रव्यं लक्षयति
अवगाहनागुणमाकाशम् ॥
अवगाहनेति । अवगाहनमनुप्रवेशस्स एव गुणो यस्य तदाकाशमिति विग्रहः, अवगहनागुणत्वं आकाशस्य लक्षणम् । नन्विदमवगाहनं पुद्गलादिद्रव्यसम्बन्धि गगनसम्बन्धि 20 च, संयोगवत्तथा च तत्कथमाकाशस्यैव गुणः, उभयगुणत्वे चातिव्यायापत्त्या तत्कथं लक्षणं भवितुमर्हतीति चेन्मैवम्, लक्ष्यं ह्याकाशं प्रधानमवगाह्यत्वात् अवकाशदानेनोपकारकत्वाच्च, पुद्गलादिद्रव्यन्त्ववगाहकं, तथा च स्वानुकूलावकाशदातृत्वसम्बन्धेनावगाहनाव
१ यद्यत्कार्यं तत्तदपेक्षाकारणवद्यथा घटादिकार्यम् । तथा चासौ स्थितिरपि यच्च तदपेक्षाकारणं सोऽधर्मास्तिकायः । न च नास्त्यधर्मास्तिकायोऽनुपलभ्यमानत्वाच्छशविषाणवदिति वाच्यम्, दिगादीनाम सिद्धयापत्तेर्वादिनः । न च दिगादिप्रत्ययलक्षणकार्यदर्शनतस्तेऽनुमीयन्त इति वाच्यम्, तुल्यत्वात् न च नासौ कदाचिद्दृष्ट इति वाच्यं, दिगादिष्वपि तुल्यत्वात् । न चास्य सर्वदा सर्वस्य सन्निहितत्वेन सदा स्थितिस्स्यादिति वाच्यम्, दिगादिष्वपि तुल्यत्वात् । न च निमित्तान्तरापेक्षणाद्दिगादितो न सर्वदा कार्योत्पत्तिप्रसङ्ग इति वाच्यमधर्मास्तिकायेनापि स्वपरगतविश्रसाप्रयोगव्यापारापेक्षणादुक्तदोषासम्भवादिति भावः ॥