________________
धर्मपरिमाणम् ]
न्यायप्रकाशलमलङ्कृते गुणा द्रवदहनादयः पृथिव्या एव प्रसज्येरन् । आकाशस्यैव निमित्तत्वेऽलोकाकाशेऽपि गमनप्रसङ्गाच्च । न च कारणत्वमन्वयव्यतिरेकगम्यं, यथा जलादिसद्भावे मत्स्यादीनां गतिस्तदभावे च तदभाव इति, तथा च धर्मद्रव्यसत्त्वेऽपि जलाभावे मत्स्यादीनां गत्यभावाद्वयभिचारेण न कारणत्वं गतौ तस्यापि तु जलस्यैवेति वाच्यम् , सत्यपि भूम्यादावधिकरणे गगनस्य सर्वाधारत्वमिव सत्यपि झषादिगतौ जलादीनां कारणत्वे सर्वेषां गतिसामान्यं प्रति निमित्ता- 5 न्तरस्यापेक्षितत्वात् । न च देशान्तरप्राप्तिहेतुर्द्रव्यपरिणामविशेषो गतिस्तथा च देश एव गत्यपेक्षाकारणमस्त्विति वाच्यम् , देशविशेषाणां देशत्वेनानुगतरूपेण कारणत्वासम्भवात् तथासति ह्यलोकेऽपि गमनं प्रेसज्येत, तत्तद्गति प्रति तत्तद्देशत्वेन कारणत्वे त्वनन्तकार्यकारणभावकल्पनाप्रसङ्गः स्यात् , न च धर्मस्यापि न धर्मत्वेन कारणत्वमतिप्रसङ्गात् , अपि तु तत्तत्प्रदेशत्वेनैवेति तवापि गौरवं दुर्वारमेवेति वाच्यम् , लोकालोकविभागान्यथानुपपत्त्यापि 10 धर्मद्रव्यस्यावश्यकत्वे तस्यैव गतित्वावच्छिन्नकार्यतानिरूपितकारणत्वाभ्युपगमात् पुद्गलस्कन्धातिरिक्तस्याकाशातिरिक्तस्य वा देशस्याभावेन तयोर्गतिपरिणामिकारणत्वेनावगाहना. गुणत्वेन च गत्यपेक्षाकारणत्वासम्भवाचेति ॥ अस्यास्तिकायत्वात्प्रदेशेयत्तामाविष्करोति
असंख्येयप्रदेशात्मको लोकाकाशव्यापी च ॥ 15 असंख्येयेति । शास्त्रसंव्यवहारार्थ प्रदिश्यन्त इति प्रदेशाः, द्रव्यपरमाणुमूर्तिव्यवच्छिन्नाः, कदापि ये न वस्तुव्य तिरेकेणोपलभ्यन्ते भागास्ते प्रदेशाः। असंख्येयाः प्रदेशा येषान्ते असंख्येयप्रदेशाः तदात्मको धर्मो न संख्येयप्रदेशात्मको नाप्यनन्तप्रदेशात्मक इति भावः। न च धर्मादीनां निरवयत्वेन तत्र प्रदेशकल्पना सिंहो माणवक इतिवदौपचारिकीति वाच्यम् , प्रत्ययाभेदात् , मुख्यप्रत्ययात्सिंहविशेषादध्यवसानरूपान्माणवके हि सिंह इति गौणप्रत्ययोऽ- 20 ध्यारोपरूपो भिन्न उपलभ्यते, न च तथा पुद्गलेषु धर्मादिषु च प्रदेशप्रत्ययो भिन्नोऽस्ति, . उभयत्रावगाहभेदतुल्यत्वात् , न च परमाणुषु मुख्यः प्रदेशप्रत्यय इति वाच्यम् , अनादिरमध्योऽप्रदेशो हि परमाणुरिति वचनात् । ननु धर्मादीन्याकाशवर्तिक स्वात्मप्रतिष्ठान्युत जलादिवदाधारान्तरप्रतिष्ठानि, आधारान्तरप्रतिष्ठत्वेऽप्येकदेशेन सर्वात्मना वेत्याशङ्कायामाह-लोकाकाशव्यापी चेति । आकाशप्रतिष्ठानि लोकाकाशमभितो व्याप्य च प्रतिष्ठिता. 25 नीति भावः । यद्यपि निश्चयनयेन सर्वमेव वस्तु स्वात्मन्येव प्रतिष्ठितं तथापि व्यवहारनया
१ न चेष्टापत्तिः, अलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुद्गलानां तत्र प्रवेशालोके द्विव्यादिजीवपुदलसत्त्वस्य सर्वथा तच्छून्यत्वस्य वा प्रसङ्गादिति ॥