________________
तत्वन्यायविभाकरे
[ तृतीयकिरणे एतदेव निमित्तकारणमसाधारणकारणमपेक्षाकारणमुच्यते, द्रव्यगतक्रियापरिणाममपेक्ष्य धर्मादीनां जीवादिगत्यादिक्रियापरिणतेः परिपोषणात् , ईदृक्परिपोषणस्यान्यासाधारणत्वात् , धर्माद्यखिलद्रव्येषु वैनसिकक्रियायाः सद्भावेन प्रायोगिक क्रियापेक्षया निष्क्रियत्वेन धर्मादिषु
दण्डादिवन्निमित्तकारणत्वप्रसङ्गस्य निर्व्यापारत्वेनाकारणत्वप्रसङ्गस्य च नावकाशः । तथा 5 च जीवादावतिप्रसङ्गभङ्गाय हेत्वन्तम् । कस्यचिन्मते जीवविशेषगुणे रूढस्य धर्मस्य व्यावृत्त्यर्थ द्रव्यपदम् । गतिमत्त्वे सति द्रव्यत्वमित्युक्तौ जीवपुद्गलयोरतिव्याप्तिरिति गत्यसाधारणहेतुत्वे सतीत्युक्तम् । गतिहेतुत्वे सति द्रव्यत्वमित्युक्तौ कालादिसमवायानां कार्यमात्रकारणत्वे कालादावतिव्याप्तिवारणायापेक्षाकारणत्वापरपर्यायमसाधारणकारणत्व
मुक्तम् , अपेक्षाकारणत्वे सति द्रव्यत्वमित्युक्तावधर्मादावतिव्याप्तिरिति गतीति ।। 10 ननु निखिलमिदं तदा सङ्गच्छते यदा लक्ष्यभूतं धर्मद्रव्यं प्रमितं स्यात, न ह्यप्रमितं लक्षयितुं शक्यमतिप्रसङ्गात् , तस्माच्छून्यमिदं जल्पनमित्याशङ्कायां तत्प्रमिणोतितत्र प्रमाणं जीवपुद्गलानां गतिर्वाह्यनिमित्तापेक्षा गतित्वाजलस्थम
त्स्यादिगतिवदित्यनुमानम् ॥ तत्रेति । तच्छब्देन लक्ष्यभूतधर्मद्रव्यपरिग्रहः, सप्तम्यर्थो विशेष्यत्वं, तस्य च प्रमाणपद15 वाच्यप्रमितिकरणत्वैकदेशे प्रमितावन्वयस्तथा च लक्ष्यभूतधर्मद्रव्यविशेष्यकप्रमित्यसाधा
रणकारणमित्यर्थस्तस्य चाग्रेतनेनानुमानपदेनान्वयः । जीवपुद्गलानामिति । गतिपरिणतानामित्यादिः, अन्यथा धर्मद्रव्यस्य बलात्तत्र गतिजनकत्वापत्तेः, न चेष्टापत्तिः, गतिपरिणतानां गतिं प्रति पोषकत्वाभ्युपगमात् , अनवरतगतिप्रसङ्गाच्च । बाह्यनिमित्तापेक्षेति,
आन्तरनिमित्तजीवादिशक्तिमादाय सिद्धसाधनवारणाय बाह्येति । गतौ परिणामिकारणं 20 जीवादिकं निवर्तककारणञ्चादाय सिद्ध साधनवारणाय कारणपदमुपेक्ष्य निमित्तपदग्रहणं
कृतम् । यथा च स्वयमेव सञ्जातजिगमिषस्य मत्स्यस्य गतौ जलमनुपघातकं सन्निमित्ततयोपकारकं तथा स्वभावेन परिणतजीवपुद्गलगतिरप्यनुपघातकं किञ्चन द्रव्यं निमित्ततयोपकारकमपेक्षत एव, गतित्वस्योभयत्र समानत्वात् , न च तादृशं द्रव्यमाकाशं भवितुमर्हति, अवगाहनामात्रगुणत्वात् , नान्यस्य धर्मोऽन्यस्य भवितुमर्हति तथा च सत्यप्तेजो
- १ तदुक्तं “परिणामी गतेधर्मो भवेत्पुद्गलजीवयोः । अपेक्षाकारणालोके मीनस्येव जलं सदा' इति । तथा यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, तथा धर्मोपि, 'शुद्धपदवाच्यत्वं च प्रमाणान्तरनाधितविषयत्वाख्य दोषरहितत्वेन, न च खपुष्पादिषु केनापि संकेतितैस्स्वादिशुद्ध पैदरनेकान्तः, वृद्धपरम्परायातसंकेतविषयाणामेव शुद्धपदानां वाच्यत्वस्येह हेतुत्वेन विवक्षणादिति ॥