________________
धर्मनिरूपणम् ]
न्यायप्रकाशसमलते प्रकरणरूपत्वादस्य ग्रन्थस्य विस्तरेणाभिधानमनुचितमिति जीवनिरूपणमुपसंहरति इतीति, उक्तदिशेति भावः, समाप्तमिति शेषः ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधरश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलधिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां जीवनिरूपणा
ख्यो द्वितीयकिरणस्समाप्तः ॥
अथ तृतीयकिरणः ॥ अथ द्वितीयं तत्त्वं निरूपयितुं तल्लक्षणमाह
चेतनाशून्यं द्रव्यमजीवः ।। चेतनेति। चेतनाशून्यत्वे सति द्रव्यत्वमजीवस्य लक्षण, जीवेऽतिप्रसङ्गवारणाय विशे- 10 षणं, न भावोऽभाव इतिवच्चेतनाभावमात्रस्याजीवत्वप्रसङ्गवारणाय विशेष्यम् , तत्राजीवस्य पञ्चविधत्वं पूर्वमुक्तमेव ॥ सम्प्रति प्रथमं धर्मं लक्षयति
गत्यसाधारणहेतुर्द्रव्यं धर्मः ।। गत्यसाधारणेति । गतिर्गमनक्रिया, क्रिया च बाह्याभ्यन्तरनिमित्तापेक्षत्वे सति देशान्तर- 15 प्राप्तिहेतुत्वे सति द्रव्यपर्यायरूपा । तत्राभ्यन्तरं निमित्तं द्रव्यस्य क्रियापरिणामशक्तिः, बाह्यं . तु नोदनाभिघातादिः, एतेन च क्रियायाः कथञ्चिद्रव्यभिन्नत्वमन्यथोपरमाभावप्रसङ्गः, द्रव्यपर्यायत्वाच्च नात्यन्तिकभेदः, अन्यथा द्रव्यस्य निश्चलत्वप्रसङ्गः । ज्ञानादीनामपि बाह्याभ्यन्तरनिमित्तापेक्षत्वे सति द्रव्यपर्यायत्वात्तद्वारणाय देशान्तरप्राप्तिहेतुत्वे सतीत्युक्तम् । सा च जीवपुद्गलयोरेव, तयोरेव देशान्तरप्राप्तिदर्शनात् । तां प्रत्यसाधारणहेतुभूतं द्रव्यं धर्म इत्यर्थः, तत्र 20 कारणं त्रिविधं निर्वर्त्तकनिमित्तपरिणामिभेदात् , यथा घटं प्रति कुलालो निर्वर्त्तकं कारणं, दण्डादिकं निमित्तं, मृत्पिण्डः परिणामि, तथा जीवपुद्गलानां गति प्रति गतिक्रियाविष्टं तदेव जीवपुद्गलद्रव्यं निर्वर्तकं तदेव च गतिपरिणामि परिणामिकारणं, धर्मद्रव्यश्च निमित्तमिति । निमित्तं कारणश्च प्रायोगिकवैससिकोभयक्रियावद् यथा दण्डादिः, तद्वत् केवलं वैस्रसिकक्रियावदपि,
१ आत्मपक्षे प्रयोगः आत्मा सक्रियो देहपरिस्पन्ददर्शनाद्यंत्रपुरुषवदिति, न च देहपरिस्पन्दहेतुः प्रयत्नो न कियेति वाच्यमक्रिये नभसि तदसंभववदक्रिय आत्मन्यपि तदसम्भवात् , तथाऽऽत्मा सक्रियः कर्तृत्वात् कुलालवदित्यपि प्रयोगो न चासिद्धो हेतुः, कर्ताऽऽत्मा स्वकर्मफलभोक्तृत्वादित्यनुमानतस्तत्सिद्धेरिति ॥