________________
: ३६ :
5
स्पर्शेति । स्पर्शनेन्द्रियकायबलोच्छ्वासायुर्लक्षणाश्चत्वारः प्राणा एकेन्द्रियाणां पृथिव्यादीनामित्यर्थः । रसेति । स्पर्शनरसनेन्द्रियकायवाग्बलोच्छ्वासायुस्वरूपाः षट्प्राणा इत्यर्थः । श्रोत्रेणेति । इन्द्रियपञ्चककायवाग्बलोच्छ्वासायुर्लक्षणाः नव प्राणा असंज्ञिपश्चेन्द्रियाणामित्यर्थः । मनसेति। पूर्वोक्ता दशविधाः प्राणास्संज्ञिनां भवन्तीत्यर्थः । सिद्धानान्तु निर्धूताखिलकर्मत्वात् कर्मप्रभवद्रव्यप्राणानामभावात्तेषां भावप्राणा एवेत्याह अनन्तेति । द्वन्द्वादौ श्रुतमनन्तपदं ज्ञाने 10 दर्शने चारित्रे वीर्ये चान्वेति, अनन्तं ज्ञानं सकलज्ञेयग्राहि समस्तज्ञानावरणक्षयप्रभवं, अनन्तं दर्शनं अशेषदर्शनावरणीयक्षयसमुज्जृम्भितं, अनन्तं चारित्रं सकलमोहक्षयाविर्भूतं, अनन्तं वीर्यं निखिलवीर्यान्तरायकर्मप्रध्वंस विलसितं । ज्ञानदर्शनचारित्रवीर्याणि जीवमात्रसाधारणानि परन्तु संसारिणामनादितस्तत्तत्कर्मावृतत्वेन यथाक्षयोपशमं न्यूनाधिकानि भवन्ति, मुक्तानान्तु कृत्स्नकर्मक्षयादाविर्भूतानि एतान्येव प्राणभूतानीति भावः ॥
अथ संसारिणं लक्षयति
निर्धूताशेषकर्मा असंसारी, स एव सिद्धो जिनाजिनतीर्थादि भेदभिनश्चरमशरीरत्रिभागोनाकाशप्रदेशावगाही च ॥ इति जीवनिरूपणम् ॥
तत्त्वन्याय विभाकरे
| द्वितीयकिरणे
स्पर्शका योच्छ्वासायूँष्ये केन्द्रियाणाम्, रसवाग्भ्यां सह पूर्वोक्ता द्वीन्द्रियाणाम्, घ्राणेन सहैते त्रीन्द्रियाणाम्, चक्षुषा सहैत एव चतुरिन्द्रियाणाम्, श्रोत्रेण सहामी असंज्ञिनाम्, मनसा सहैते संज्ञिपञ्चेन्द्रियाणाम्, अनन्तज्ञानदर्शनचारित्रवीर्याणि चत्वारि सिद्धानां भावप्राणाः ॥
15
निर्धूतेति । निर्धूतानि निःशेषीकृतान्यशेषाण्यष्टविधानि ज्ञानावरणीयादिकर्माणि येन स निर्धूताशेषकर्मा । निर्धूतयत्किञ्चित्कर्मण्यतिप्रसङ्गवारणायाशेषेति । तत्र यो विशेषस्तमाह20 स एवेति । असंसार्येवेत्यर्थः । जिनाजिनेति । एतत्तत्त्वमत्रे वक्ष्यते । चरमशरीरेति । यथा प्रदीपतेजोऽवयवाः स्वल्पेऽवकाशे संकोचं महति च विकासं भजन्ते तथैव लोकाकाशप्रदेशमितस्यात्मनोऽपि प्रकृष्टसंकोचप्राप्तिदशायां लोकस्यैकस्मिन्नसंख्येयभागे स्थितिः, उत्कृष्टविकासकाष्ठावलम्बिनः केवलिनस्समुद्धातदशायां सर्वलोकेऽवगाहोऽन्यत्र चानेकविधा मध्यमावस्थेति वस्तुस्थितिः | परन्तु सर्वस्य संसारिणोऽनन्तानन्तपरमाणुजन्यकार्मणशरीरेणाना25 दितस्संसृष्टतया स्वभावतोऽपि वा नैकादिप्रदेशावगाहित्वं किन्त्वसंख्येयप्रदेशावगाहित्वमेव, सिद्धानां योगनिरोधकाले च शरीरसुषिराणां पूरणात् तृतीयभागहीनावगाहत्वं, अतः परमनावरणवीर्यस्यापि भगवतो न संकोचः, स्वभावश्चायमेतावानेव संहार इति न स्वभावे पर्यनुयोगः कारणाभावात्प्रयत्नाभावेनोपसंहाराभावाच्चेति ||