________________
प्राणाः ]
न्यायप्रकाशसमलङ्कृते । ___ननु पृथिव्यप्तेजोवायुप्रभृतीनां कथं जीवत्वं परैरनभ्युपगमादित्याशङ्कायां प्राणवतां जीवत्वस्योभयवादिसिद्धतया तद्दिदर्शयिषुराह
एत एव प्राणिनः । एत एवेति । एवशब्दो भिन्नक्रमः तथा चैते-चतुर्दश विधाः प्राणिन एव-प्राणवन्त एवातो जीवत्वमेषामिति भावः, अत्र प्रमाणान्युपदर्शितान्येव पूर्वमागमाश्च " पुढविकाइया 5 णं भंते ! किं सागारोवओगोवउत्ता अणागारोवओगोवउत्ता गोयमा ! सागरोवओगोवउत्तावि, अणागारोवओगोवउत्तावि" इत्यादयो द्रष्टव्याः।
के तत्र प्राणा येन तद्वत्त्वमेषां भवेदित्यत्राह
तत्र प्राणा द्रव्यभावभेदेन द्विविधाः। द्रव्यप्राणाः पञ्चेन्द्रियमनोवाकायबलोच्छ्वासायूंषि दश । अनन्तज्ञानदर्शनचारित्रवीर्यात्मकाश्चत्वारो 10 भावप्राणाः॥
तत्रेति । तत्पदेन प्राणिनः परामर्शः, घटकत्वं सप्तम्यर्थः, तथा च प्राणिघटकीभूता इत्यर्थः । तत्राद्यस्य भेदमाह-द्रव्यप्राणा इति । मनोवाक्कायानां द्वन्द्वानन्तरं बलेन तत्पुरुषः, तत्र द्रव्यभावमनसोापारविशेषो मनोबलं, गृहीतयोग्यपुद्गलद्रव्याणां भाषात्वेन परिणमनोत्तरं मनोयोगेन विसर्जनशक्तिः, शब्दोच्चारणरूपजीवशक्तिविशेषो वा वाग्बलं, 15 शरीरद्वारा पदार्थग्रहणपरित्यागरूपः जीवव्यापारः, तदनुकूलजीवनिष्ठशक्तिविशेषो वा कायबलं, गृहीतयोग्यपुद्गलानां शरीरयोगेनोच्छ्वासनिश्वासत्वेन परिणमय्यावलम्बनपूर्वकपरित्याग उच्छ्वासात्मकः प्राणः । आयुस्तु द्रव्यकालतो द्विविधम् । कर्मपुद्गलविशेषो द्रव्यायुः । तत्साहाय्येन नियतकालं जीवनं कालायुः, तत्र नैति जीवो मृत्यु द्रव्यायुषस्समाप्तिमन्तरेण । कालायुश्चापवर्तनीयानपवर्त्तनीयभेदतो द्विविधम् । आयुर्बन्धावसरे जीवप्रदेशेष्वध्यवसा- 20 यमान्द्यादतिविरलतयोपात्तानामायुषां शस्त्राद्यभिघातेन नियतकालादागेव यदा समापनं । भवति तदपवर्तनीयायुरित्युच्यते । मन्दपरिणामप्रयोगोपचितमपवर्त्य, अध्यवसानादिविशेषात्प्राक्तनजन्मविरचितस्थितेरल्पतापादनमपवर्त्तनेति यावत् । तीव्रतराध्यवसायात्तीव्रपरिणामप्रयोगोपचितानामायुषां भञ्जकप्रसङ्गेऽपि गाढबन्धनत्वान्निकाचितबन्धात्मनियमाद् यदा नियतकालादर्वाग् भङ्गाभावस्तदनपवर्तनीयायुः प्रोच्यत इति ।।
25 अथ केषां कियन्तः प्राणा इत्यत्राह१ एतेन यो जीवति स तावन्नियमाज्जीवः, अजीवस्यायुःकर्माभावेन जीवनाभावादिति व्याप्तिर्दर्शिता, यस्तु जीवः स स्याज्जीवति, स्यान्न जीवति, सिद्धस्य केनचिन् नयेन जीवनाभावात् , 'सिद्धो पुणरजीवो जीवणपरिणामरहिओत्ति' इति वचनादिति बोध्यम् ।
जीवनाभावादिति व्यानिकिता