________________
तस्वन्यायविभाकरे
[ द्वितीयकिरणे शरीरत्वात्पाण्यादिसंघातवत् , मन्दविज्ञानसुखादिमन्तो वृक्षा अव्यक्तचेतनानुगतत्वात्सुप्तादिपुरुषवत् । चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वाद् गवाश्वादिवदित्यादीनि । द्वीन्द्रियान्निदर्शयति क्रिम्यादय इति । आदिनाऽपादिकनूपुरकगण्डपदशङ्खशुक्तिकाशम्बूकाजलूकाप्रभृतीनां ग्रहणम् , एषां स्पर्शनरसन इन्द्रिये भवतः । त्रीन्द्रियाणां निदर्शनमाह 5 त्रीन्द्रिया इति । आदिना रोहणिकोपचिकाकुंथुतुम्बुरुकादीनां ग्रहणम् , एतेषां स्पर्शनरस
नघ्राणानीन्द्रियाणि । चतुरिन्द्रियानाह चतुरिन्द्रिया इति । आदिना बटरसारङ्गमक्षिकापुत्तिकदंशादयो ग्राह्याः, स्पर्शनरसनघ्राणचखूपयेषामिन्द्रियाणि ॥
असंज्ञिपश्चेन्द्रियाणां निदर्शनमाह
असंज्ञिपश्चेन्द्रिया मनोहीना अगर्भजा मीनादयः । 10 असंज्ञीति । संज्ञा हिताहितप्राप्तिपरिहारयोर्गुणदोषविचारणात्मिका साऽस्त्येषामिति
संज्ञिनः, न त्वाहारभयमैथुनपरिग्रहसंज्ञासम्बन्धात्संज्ञिनः, सर्वेषामेव प्राणिनां दशविधसंज्ञाभ्युपगमात् , अत एव संज्ञा न ज्ञानरूपा विवक्षिता निवाभावात् , सर्वेषां प्राणिनां ज्ञानात्मकत्वात् , यद्वा कालिकीहेतुदृष्टिवादोपदेशाख्यासु तिसृषु संज्ञासु कालिकीसंज्ञा सम्प्रधार
णाख्या गृह्यते, येन सुदीर्घमपि कालमनुस्मरति भूतमागामिनश्चानुचिन्तयति कथं कर्त्तव्यं 15 किमनुष्ठेयमिति सा दीर्घकालिकी सम्प्रधारणेत्युच्यते तद्वन्तस्संज्ञिनः, तथा च सम्प्रधारण
संज्ञा मनोरूपैव । न संज्ञिनोऽसंज्ञिनस्ते च ते पञ्चेन्द्रियाश्चासंज्ञिपश्चेन्द्रिया इति व्युत्पत्तिः, अमुनाऽभिप्रायेणैव मनोहीना इत्युक्तम् । अत्र मनोहीना इत्यसंज्ञिनः पर्यायकथनमेव न तु लक्षणमभेदात् , अथवा लक्षणं भिन्नमपि भवति यथा वने प्रभूताम्भोजसौरभादिलक्षणेन
महान् जलाशयो लक्ष्यते, तथाऽभिन्नमपि भवति यथाऽग्निरुष्णत्वेन लक्ष्यते तथात्र बहिर्व. 20 तिनाऽनुभवसिद्धन सम्प्रधारणसंज्ञाविरहरूपासंज्ञित्वेन मनोहीनत्वमनुमीयत इति बोध्यम् ।
ते च निखिलनारकदेवगर्भव्युत्क्रान्तमनुष्यतिर्यग्भिन्नास्सर्वेऽपि विज्ञेयाः, मीनादय इति, आदिना सम्मूछिममनुष्यपश्वादीनां ग्रहणम् ।। अथ संज्ञिपश्चेन्द्रियाणां दृष्टान्तमाह-.
संज्ञिपश्चेन्द्रिया देवमनुजादयः ।। 25 संज्ञिपञ्चेन्द्रिया इति । देवमनुजादय इति, मनुजपदेन संमूच्छिमभिन्ना ग्राह्याः, आदिना
नारका गर्भव्युत्क्रान्तिकगोमहिष्यादयो गृह्यन्ते ।।