________________
1 MR :
वन्याय विभाकरे
[ तृतीयकिरण
धर्मिग्राहकमानेनाकाशस्यैकत्वे सिद्धे तस्योपाधिनिमित्तं भेदमाह – लोकालोकेति लोकाकाशोऽलोकाकाशश्चेति द्विविधमित्यर्थः, धर्माद्यवच्छिन्नं नभो लोकाकाशस्तद्विपरीतोऽलोकाकाश इति भावः । ननु लोकाकाश एव भवतु किमलोकाकाशेनेति चेन्न लोको विद्यमानविपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वादघटविपक्षकघटवदित्यनुमानेन तत्सिद्धेः, न च घटा5 दिरेवालोक इति वाच्यम्, नत्रा निषेध्यसदृशस्यैव बोधनात्, तस्माद्धर्माद्याधारात्मक लोकाकाशस्य विपक्षisोकाकाशमेव भवितुमर्हतीति बोध्यम् ॥
लोकाकाशमानं वक्तुं परिच्छेदकलोकस्वरूपप्रदर्शनद्वारा परिच्छेद्यमानं स्पष्टयति-
चतुर्दशरज्जुप्रमाणः पञ्चास्तिकायात्मको लोकस्तद्व्याप्योऽसंख्येयप्रदेशाssत्मको लोकाकाशः । तद्भिन्नोऽलोकाकाशोऽनन्तप्रदेशात्मकः । धर्मा10 दयस्त्रयोऽपि स्कन्धदेशप्रदेशभेदेन त्रिविधाः । पूर्णं द्रव्यं स्कन्धः । माध्यमिकौपाधिकभागा देशाः । केवलप्रज्ञापरिकल्पितसूक्ष्मतमो भागः प्रदेशः ।।
1
'
चतुर्दशेति । लोको हि भुवनं, तच्च पञ्चास्तिकायात्मकं, चतुर्दश रज्जुपरिमितच, तेन व्याप्यः - परिच्छिन्नः, तत्र परिच्छिन्न इत्यनुक्त्वा व्याप्य इति वचनं पञ्चास्तिकायेषु परिच्छेदकतया व्यापकस्य ग्रहणार्थं, तादृशश्च धर्मो वा स्यादधर्मो वा, तथा च तावत्प्रदेशत्वमेवास्यापीत्याशयेना. 15 ह - असंख्येयप्रदेशात्मक इति । अलोकाकाशमाह - तद्भिन्न इति । लोकाकाशभिन्न इत्यर्थः । अनन्तप्रदेशात्मक इति, एतदपेक्षया च समस्ताकाशस्यानन्तप्रदेशात्मकत्वमित्यपि बोध्यम् । अथ धर्मादीनां त्रयाणां विशेषमाह-धर्मादय इति । अपिना जीवोऽपि तथैवेति सूचितम्, स्कन्धमाह - पूर्णमिति निखिलस्वस्वप्रदेश परिपूर्णमसंख्येयप्रदेशात्मकमिति यावत् । माध्यमिकेति, पूर्णसमुदायादेकादिप्रदेशहीना आद्र्यादिप्रदेशं बुद्धिपरिकल्पिता विभागा देशा उच्यन्त इत्यर्थः । केवलेति । 20 केवलज्ञानेन परिकल्पितः सूक्ष्मतम निर्विभागो भागः केवलप्रज्ञयापि दुर्भेद्यः प्रदेश इत्यर्थः ॥ अथ कालस्य धर्मादिद्रव्यपञ्चकपरिणामत्वेन तदन्तर्भूतत्वे पदार्थान्तरत्वे वा सर्वथा तत्स्वरूपनिर्वचनस्यावश्यकत्वेन तं लक्षयति-
वर्त्तनालक्षणः कालः ॥
वर्त्तनालक्षण इति । तत्र कालस्य पर्यायात्मकत्वे वर्त्तना लक्षणं स्वरूपं यस्य स इति 25 व्युत्पत्त्या वर्त्तनास्वरूपः काल इत्यर्थो बोध्यः । तत्र च वर्त्तना सादिसान्तादिचतुर्भेदभिन्नायां स्थित्यां यत्किञ्चित्प्रकारेण द्रव्याणां वर्तनं, सैव कालव्यपदेशभाक् । तत्र च परिणामक्रियापरत्वापरत्वानामप्युपलक्षकं वर्तनापदं, तेषामपि कालव्यपदेशभाक्त्वात् । एतेषाञ्च द्रव्यप