________________
: ३२ :
तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे
परिणतपुद्गलाबलम्बनं निसर्गसामर्थ्यविशेषश्च भवति, मन्दशक्तेर्नगरपरिभ्रमणाय यष्ट्यवलम्बनवद् वाग्योगावलम्बनं बोध्यम् ॥
अथ मनः पर्याप्तमाह
मनस्त्वयोग्यद्रव्याहरणविसर्जनशक्तिजननक्रियापरिसमाप्तिर्मनः
5 पर्याप्तिः ॥
मनस्त्वयोग्येति । मनस्त्वयोग्यानि यानि द्रव्याणि तेषामाहरणविसर्जने-अ -अवलम्बनमोक्षणे तद्विषयिणी या शक्तिः तज्जननक्रियायास्तदनुकूलक्रियायास्समाप्तिर्यत इत्यर्थः । मनःपर्यायाहि मनोयोग्यान् मनोवर्गणास्कन्धानादत्ते परिणमयति च ततश्चिन्तनार्थमवलम्ब्य तिच मनोयोगेन । एवं च प्रथममनेकपुद्गलग्रहणं ततः शरीरपर्याप्तिः तदनु इन्द्रिय10 पर्याप्तिस्तस्तः श्वासोच्छ्वासपर्याप्तिस्ततो भाषापर्याप्तिस्ततो मनःपर्याप्तिरिति क्रमः, परन्तु पर्याप्त कार्यारम्भ उत्पत्तिप्रथमसमय एव, निष्ठा तु द्वितीयादीनामनुक्रमेण भवति तस्मात्स्वस्वकार्यपूर्णतां यावत्ता अप्यपूर्णा एव कथ्यन्त इति बोध्यम् ॥
एवमवगते पर्याप्तिप्रभेदे पर्याप्तापर्याप्तस्वरूपमाह—
स्वस्वयोग्य पर्याप्ति पूर्णत्व भाजः पर्याप्ताः । स्वस्वपर्याप्ति पूर्णताविकला 15 अपर्याप्ताः ॥
स्वस्वेति । यस्य यस्य यावत्यः पर्याप्तयोऽभिमतास्तावत्पर्याप्तिकार्य पूर्णता भाजस्ते पर्याप्ता उच्यन्त इत्यर्थः । एतद्विपरीतास्त्वपर्याप्ता इत्याह स्वस्वेति ।
केषां जीवानां कति पर्याप्तयो भवन्तीत्यत्राह —
तत्रैकेन्द्रियस्याद्याश्चतस्रः । द्वित्रिचतुरिन्द्रियासंज्ञि पञ्चेन्द्रियाणां पञ्च । 20 संज्ञिपश्चेन्द्रियाणां षट् पर्याप्तयः ॥
तत्रेति । षटूत्सु पर्याप्तिषु मध्य इत्यर्थः । आद्याश्चतस्र इति आहारशरीरेन्द्रियोच्छ्वासरूपाश्चतस्र इत्यर्थः, भाषामनसोस्तस्याभावात् । पचेति, तेषां मनसोऽभावेन मनःपर्याप्तिनस्तीति भावः । षटूपर्याप्तय इति, मनसोऽपि सत्त्वादिति भावः । एताभिश्च स्वस्वयोग्यपर्याप्त पर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं समाप्य ततोऽन्तर्मुहूर्तेनायुर्बध्वा 25 तदनन्तरमबाधाकालरूपमन्तर्मुहूर्तं जीवित्वैव च म्रियन्त इत्यप्यवधेयम् ॥