________________
भाषापर्याप्तिः ]
न्यायप्रकाशसमलङ्कृते
: ३१ :
ह्याणि तेषामेवोत्पादनेऽङ्गोपाङ्गनामकर्मण इन्द्रियपर्याप्तेश्च हेतुत्वात्, भावरूपाणान्तु निर्वर्त्तने इन्द्रियावरणक्षयोपशमस्यैव सामर्थ्यात्, जातिनामकर्मणस्त्वे केन्द्रियादिशब्दप्रवृत्तिनिमित्तसमानपरिणतिलक्षण सामान्यं प्रति प्रयोजकत्वात्, तथा च त्वगादीन्द्रियाणां तत्तदिन्द्रियस्वरूपेण या निर्वर्त्तनक्रिया सा परिसमाप्यते यस्माच्छक्तिविशेषात्पुद्गलविशेषाद्वा सेन्द्रियपर्याप्तिः सर्वशरीरेन्द्रियव्यापिनी, धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णां 5 पञ्चानां वेन्द्रियाणां प्रायोग्यानि द्रव्याण्यादायैकद्वित्र्यादीन्द्रियरूपतया परिणामयति यतस्सेन्द्रियपर्याप्तिः प्रवचनाद्यनुसारेणौदारिकशरीरेन्द्रियविषया ॥
अथोच्छ्वासपर्याप्तिमाह—
श्वासोच्छ्वासयोग्यद्रव्यादानोत्सर्गशक्तिविरचनक्रियासमाप्तिः श्वा
सोच्छ्वास पर्याप्तिः ॥
श्वासोच्छ्वासेति । श्वासोच्छ्वासयोग्यानां द्रव्याणां श्वासोच्छ्वासरूपाणामिति यावत्, तेषां यावादानोत्सर्गौ-ग्रहणमोक्षणरूपौ तद्विषयिणी या शक्तिर्लब्धिर्या च श्वासोच्छ्वासनामकर्मसाध्या तदनुकूला या विरचनक्रिया सा समाप्यते यतश्शक्तिविशेषात्पुद्गलोयचयाद्वा सा श्वासोच्छ्वासपर्याप्तिरित्यर्थः। यद्यपि सर्वा लब्धयः क्षायोपशमिका एव न त्वौदयिक्यस्तथापि वैक्रियाहारकादिलब्धय औदयिका अपि संभवन्ति, तत्र वीर्यान्तरायक्षयोपशमस्यापि निमि- 15 तत्वेन क्षायोपशमिकत्वव्यपदेश इति बोध्यम् ॥
अथ भाषापर्याप्तिमाह-
भाषायोग्यद्रव्य परिग्रह विसर्जन शक्तिनिर्माणक्रियापरिसमाप्तिर्भाषापर्याप्तिः ॥
10
भाषायोग्येति । भाषायोग्यानां द्रव्याणां ये परिग्रहविसर्जनेऽवलम्बनविसगैौ तद्विष- 20 यिणी या शक्तिः - सामर्थ्यविशेषः - अवलम्बनपूर्वकोत्सर्जन हेतु सामर्थ्यविशेषः, तस्य या निर्माणक्रिया सा परिसमाप्यते यया सा भाषापर्याप्तिरित्यर्थः । अत्र वीर्य लब्धेस्सकाशादुपजायमानस्सलेश्यवीर्यविशेषः, सूक्ष्मबादरपरिस्पन्दरूपक्रियाविशेषो वाग्योगापरनामाऽपि सहकारिकारणं विज्ञेयम् । पर्याघ्या हि भाषायोग्यपुद्गलग्रहणपरिणमने भवतः वाग्योगेन च
1
१. पञ्चानामिन्द्रियाणां प्रायोग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिवर्तितेन वीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिरिति प्रज्ञापनायाम् ॥