________________
:३०: तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे च्यं सलेश्यवीर्यमध्यन्तर्मुहूर्तेन समाप्यत इत्युच्यते तथा चौदारिकवैक्रियाऽऽहारकतैजसभाषाप्राणापानमनःकर्मभेदेनाष्टविधेषु पुद्गलेषु शरीरस्येन्द्रियाणामुच्छ्वासस्य भाषाया मनसश्च योग्यानि यानि दलिकद्रव्याणि तेषां या आदानक्रिया-ग्रहणं तच्च परिसमाप्यते यया साऽऽहारपर्याप्तिरित्यर्थः । अत्र पर्याप्तीनामासां स्वरूपाणि तत्त्वार्थभाष्यानुसारेण निरूपितानि । प्रवचनाद्यनु5 सारेण तु बाह्याहारग्रहणखलरसरूपपरिणमनप्रयोजकात्मशक्तिविशेष आहारपर्याप्तिः ॥
अथ शरीरपर्याप्तिमाह
गृहीतशरीरवर्गणायोग्यपुद्गलानां शरीराङ्गोपाङ्गतया रचनक्रियासमाप्तिश्शरीरपर्याप्तिः।।
गृहीतेति । सामान्यतो गृहीतानां शरीरवर्गणागतयोग्यपुद्गलानां शरीराङ्गोपाङ्गतया 10 या रचनक्रिया-विरचनात्मिका क्रिया सा परिसमाप्यते यतः, स शक्तिविशेषश्शरीरपर्याप्तिः ।
लक्षणद्वयमिदं तत्त्वार्थोक्तमौदारिकवैक्रियाऽऽहारकशरीरत्रयेऽपि सङ्गच्छते । तत्राऽऽहारपर्याप्तिरौदारिकशरीरिणामाहारपुद्गलग्रहणखलरसीकरणप्रयोजिका, इतरेषां शरीरयोग्यपुद्गलग्रहणप्रयोजिका, इयश्च पर्याप्तिस्सर्वेषां समयप्रमाणा, उपपातक्षेत्रे प्रथमसमय एवाहारक
त्वात् , औदारिकशरीरिणां शेषाः पर्याप्तयः प्रत्येकमन्तर्मुहूर्तेन कालेन निष्पाद्यन्ते, सर्वासां 15 पर्याप्तीनां च परिसमाप्तिकालोऽप्यन्तर्मुहूर्तप्रमाणः, अन्तर्मुहूर्तानामसंख्यभेदभिन्नत्वात् । .. वैक्रियाहारकशरीरिणान्तु आहारेन्द्रियोच्छासभाषामनःपर्याप्तयः पञ्चाप्येकेनैव समयेन समाप्यन्ते, शरीरपर्याप्तिः पुनरन्तर्मुहूर्तेनेति भाव्यम् । प्रवचनादिषु तु रसीभूताहारस्य रसामृ
मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमनहेतुः शक्तिविशेषश्शरीरपर्याप्तिः । इदं पूर्वोक्तञ्च लक्षणद्वयमौदारिकशरीर एव संगच्छते, इतरशरीरयोरसृङ्मांसमेदसादिमयत्वाभा20 वात् । अत्र च तादृशशक्त्युत्पादनद्वारा शरीराङ्गोपाङ्गादिनामकर्माणि, साक्षात् निर्माणबन्धन
संघातननामकर्माणि केषाश्चिन्मतेनाऽऽनुपूर्वीनामकर्म च निमित्तानि भवन्ति । एषां सत्तारूपेण वर्तमानानामप्युदय एवं शरीरादीनां निष्पत्तेः । अङ्गोपाङ्गानां नियतस्थानवृत्तिताप्रयोजकत्वात् , गृहीतानां गृह्यमाणानाञ्च शरीरपुद्गलानामन्योन्यसंश्लेषकारित्वात् , शरीरत्वेन परिणतपुद्गलानामन्योन्यसन्निधानेन व्यवस्थापकत्वाच्च । केषाचिन्मतेनानुपूर्व्या अङ्गोपाङ्गानां निर्मा25 णनिर्मितानां प्रतिनियतस्थानवृत्तिताप्रयोजकत्वोपगमादिति ॥
अथेन्द्रियपर्याप्तिमाह
त्वगादीन्द्रियनिर्वत्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः । त्वगादीति । आदिना रसनघ्राणचक्षुश्रोत्राणां ग्रहणम् , तान्यपि द्रव्यरूपाण्येव प्रा