________________
आहारपर्याप्तिः ] न्यायप्रकाशसमलङ्कृते
:२९: नोच्यन्त" इति दृश्यते । नचैवं न हि भाष्यकाराभिप्राय इति वाच्यम् , आसां युगपदारब्धानामपि क्रमेण समाप्तिरुत्तरोत्तरसूक्ष्मतरत्वादि' ति स्वयमेवोक्तत्वात् , न ह्यासामितिपदेन समाप्तिरूपा पर्याप्तिर्विवक्षिता समाप्तेरारम्भासम्भवात् , क्रमेण समाप्तेरसंभवाच्च । अत एव सामर्थ्यवाचिपर्याप्तिशब्दस्य कथं नामकर्मरूपत्वमित्याशङ्कायामुक्तं 'पर्याप्तिनिवर्तकं पर्याप्तिनाम, अपर्याप्तिनिर्वर्तकमपर्याप्तिनामेति शक्तिप्रयोजकपुद्गलोपचयस्य नामकर्मत्व- 5 माविष्कृतमिति सूक्ष्मधिया विचारणीयम् । तथा चात्मसम्बन्धी पुद्गलोपचयजन्यक्रियाविशेषपूर्णताप्रयोजकशक्तिविशेषः, तादृशशक्तिनिमित्तकपुद्गलोपचयो वा पर्याप्तिरिति भावः ।।
अथ पुद्गलरूपायाश्शक्तिरूपाया वा पर्याप्तेः स्वरूपतो भेदाभावाद्विषयभेदनिबन्धन एव तस्या भेद इत्याहआहारशरीरेन्द्रियोछ्वासभाषामनोरूपविषयभेदात् पर्याप्तिष्षोढा। 10
आहारेति । तथा चाऽऽहारविषया पर्याप्तिः शरीरविषया पर्याप्तिरित्यादिक्रमेण षाड्विध्यं बोध्यम् । युगपदारब्धाः षडप्येतत्क्रमेणैव सिद्धिं यान्ति न समकालं व्युत्क्रमं वेति सूचयितुमयं क्रमः, उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् ॥
अथाऽऽहारपर्याप्तिमाहशरीरादिपञ्चयोग्यदलिकद्रव्यादानक्रियापरिसमाप्तिराहारपर्याप्तिः। 15
शरीरादीति । आत्मा हि सक्रियः, अन्यथा कायोत्पत्त्यनुकूलो यत्नो न स्यादेव, सा क्रियाऽऽत्मपरिस्पन्दरूपा, तथा चात्मा पूर्वदेहमुत्सृज्योपपातक्षेत्रे समागतः प्रथमक्षण एव कार्मणकाययोगाख्येन स्वपरिस्पन्देनौदारिकादिशरीरयोग्यान पुद्गलान् गृह्णाति । तैजसकामणशरीरेणैव प्रथमसमय एव औदारिकादिशरीरयोग्यपुद्गलाहरणाच्छक्त्युत्पत्तेश्चाऽऽहारपर्याप्तिरेकसामयिकी । वीर्यान्तरायक्षयोपशमेन वीर्यलब्धिर्भवति, तया च यथायोग्यं सूक्ष्मवादर- 20 परिस्पन्दरूपक्रियासहितं सलेइयवीर्यमुपजायते, इदमेव करणशब्दवाच्यं पर्याप्तिशब्दवाच्यं योगसंज्ञकश्च, तत्र च क्रियाप्राधान्ये योगशब्दः प्रयुज्यते, वीर्यस्य मुख्यत्वे करणशब्दः पर्याप्तिशब्दश्च प्रयुज्यते, क्रियायाः पौद्गलिकत्वेन पर्याप्तिसम्बन्धिपुद्गलानां नामकर्मत्वं, आहारपर्याप्तिं विहाय शरीरपर्याप्त्यादिक्रियाणां प्रत्येकमन्तर्मुहूर्तेन समापनाक्रियासहितं पर्याप्तिशब्दवा
१. उक्तश्चान्यत्र पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुश्शक्तिविशेष इति । अन्यत्र च “आहारसरीरदिय ऊसासवओमणोऽहिनिवित्ती । होइ जओ दलियाओ करणं एसा उ पजत्ती" इति ॥ २ आगमे तत्त्वार्थे च भाषामनःपर्याप्त्योरेकत्वमभ्युपगम्य पञ्चधा पर्याप्तिरुक्ता ॥