________________
प्रस्तावना ।
सुनिश्चितमेवैतद्विदुषां यदनादिनाऽनन्तेनाऽनेहसा दुरन्तसंसारकान्तारे नानाविधाधिव्याध्युपाधिलक्षण महादुःखदावानलसन्तप्तैर्निबिडकर्मणा सुदृढं प्रबद्धैर्मृगतृष्णायमानविषयविषपानोन्मत्तैश्चक्रवदनवरताने कयोनिसमुद्भव परिश्रान्तैर्जीवैर्नान्तरेण महता पूर्वार्जितपुण्यप्रभावेण सघन - कर्मबन्धप्रबन्धसन्धुक्षणदक्षं पीयूषपाथोंधिसहोदरानन्तसुखमय निर्वाणपुरीप्रापणसमर्थ मानुषं जन्म लभ्यते, तल्लाभेऽपि नार्यक्षेत्रसमवायः सुलभः, तत्रापि नवा मिध्यात्वतिमिरपरिहारेण सम्यकू - श्रद्धाया अवाप्तिरिति ॥
सा चेयं श्रद्धा जगत्रयविश्रुतार्ह दभिहितानवद्यजीवादिपदार्थाभिरुचिलक्षणैव । यत इदमे - वाहतं दर्शनं याथात्म्येन पदार्थतस्वावबोधाभिलाषुकाणामादर्शभूतं दुर्गमभवचक्रपरिभ्रमणपरिक्लिन्नानां भवोदधेः परम्पारं जिगमिषूणामनपायं तरणिकल्पञ्च । नात्र दर्शने दर्शनान्तरेष्विव पक्षपाताभिनिवेशेन पदार्थस्वरूपनिरूपणं परस्परविरुद्धतया प्रतिपादितमस्ति, नवा कोऽपि पदार्थचरात्मकोचरात्मको वा चारुतया न चर्चितः । पारङ्गताश्चास्मिन् दर्शने महान्तरसाधवः प्रति• भावन्तो न कापि कदापि सभासु सह दर्शनान्तरीयैर्विवदमाना अमोघानेकान्तकुचिकाप्रभावेण मुद्रिताः पराजयमुद्रया जगति शासनस्यास्यार्हतस्य विजयवैजयन्तीं प्रसारयाञ्चकुः । आरोपयच्च जयलक्ष्मी गले महात्मनां तेषामेव तदा तदा जयमालिकां यदा यदा समजनि दर्शनान्तरीयैर्वादः । येषाश्च महात्मनां चमत्कारिप्रकाण्डप्रतिभाप्रभावेण द्ययावद्भुवनोदरस्य प्राणसन्निभमार्हतशासनम - विच्छिन्नं चकास्ति । यत्र चापेक्षावादलक्षणं कुलिशं दुर्मतस्तम्बेरमाणामायत्तीकरणाय शोशुभ्यते ' ta निगूढाभिप्राय परिज्ञानेन हृदि निष्पक्षपाततासाम्राज्यं मिध्यात्वदावानलप्रशमश्च भविष्यति दूरे समुत्सारितोऽपि भविष्यति संशयवादः, तदेवंविधं दर्शनं तत्वज्ञानरत्नस्यानितरसाधारणमाकरं भ्रान्ताः कुदृष्टिकल्पनाहालाहललतावितानसंवीतमानसाः निजार्थमात्रसंसिद्ध्यभिनिवेशिनः सङ्कुचितमतिप्रचारा एव पण्डितंमन्यास्संशयवादोऽयं विरुद्धवादोऽयं चक्रवादोऽयमिति मुधैव कलयन्ति । ते च नितरां स्याद्वादसिद्धान्तानभिज्ञा एव । विलोकनीयाश्च तैः स्याद्वादप्रभाप्रवाहिणः सुदुर्भेद्ययुक्तिजालजटिला जैनशासनाम्बरमणयो दूरीकृत कुदर्शनान्धकारा अपेक्षाविशेषेणाभ्यन्तरीकृतसकलशास्त्रार्था आर्हतविचक्षणगीतार्थोदयाचलसमुज्झम्भिता ग्रन्थमार्ताण्डा निरस्य पक्षपाततिमिरदोषम् । स्याद्वादो हि वस्तुन्ये कस्मिन्नविरोधेनावस्थितानामनन्तधर्माणामपेक्षया व्यवस्थापन परः,
1