________________
सटीकस्य तत्त्वन्यायविभाकरस्ययथा कत्र पुरुषे पितृत्वपुत्रत्वभ्रातृत्वपतित्वपितृव्यत्वभागिनेयत्वादयो धर्मास्सामान्यतो विरुद्धा अपि पुरुषविशेषाद्यपेक्षयाऽविरोधेन वर्तन्ते तथैवात्मादयोऽपि निखिलाः पदार्थास्सापेक्षतया नित्यत्वानित्यत्वभेदाभेदेकानेकादिधर्माण एव, नत्वपेक्षामन्तरेण ते नित्या एवानित्या एव वा, परस्परं भिन्ना एवाभिन्ना एव वा, एकरूपा एवानेकरूपा एव वा । केवलमपेक्षापरिज्ञानविधुरा एव केचिदात्मा नित्य एवेति परे क्षणिक एवेति, अन्ये सामान्यरूप एवेति, अपरे विशेषरूप एवेति विवदन्ते अन्यतराङ्गज्ञानेन हस्तिनस्तद्रूपत्वमेवेति विवदमानजात्यन्धा इव । न च पारयन्ति पदार्थयाथात्म्यावधारणाय । तदेवं दर्पणमिव पदार्थस्वरूपप्रकाशकं दुर्वादिभिरप्रकम्प्यं सरलहृदयानां कोविदानां सुविशदमिदमाहतं दर्शनं महता पूर्वपुण्यप्रभावेणैव प्राणिभिः प्राप्यते । अवाप्य चाहततत्त्वश्रद्धानरूपं दर्शनं ध्येयसिद्धेः परमनिदानभूताय ज्ञानाय चरणाय च प्रयतेत तयोरेव मोक्षं प्रति असाधारणकारणत्वात् । विहाय हि सन्मार्ग कुमार्गे परिभ्रमतो जीवानुत्पादयित्वा श्रद्धां व्यपोद्य च शङ्कां ज्ञानं तत्र दृढीकरोति प्रोत्साहयति च क्रियायाम् । ज्ञानपूर्विका च क्रिया पुरुषं परमसिद्धिं नयति । तस्माद्विहगस्य पक्षाविवोभे अप्यसाधारणं कारणम् ॥
आत्मा स्वरूपतोऽनन्तज्ञानवान् । तच्च ज्ञानं छद्मस्थानामनादिना कालेनावृतं सत् ज्ञानप्राप्तिसाधनमनुसृत्य तत्क्षयोपशमतारतम्येनाकरोद्धृतमणेः प्रसाधनवैचित्र्येण प्रकाश इव न्यूनाधिकत्वमनुभवति, तत्प्रतिबन्धकावरणस्यात्यन्तं क्षयेण चाविर्भवत्यनन्तं ज्ञानम् । आविर्भूतानन्तज्ञानाः केचित्तीर्थकृतः जगदुपकाराय सदेवमनुजायां पर्षदि देशनां दिशन्ति । तत्प्रभाविताश्च तीर्थकरकल्पगणभृदादिभिस्तदीयं ज्ञानमागमरूपेण निबध्नन्ति यत्प्रभावेणाल्पमेधसः सौकर्येण वस्तुस्वरूपं यथार्थतया अवगच्छन्ति । ते निबन्धाः केचन प्रकरणरूपाः कतिचन सूत्ररूपा अपरे च सङ्ग्रहणीरूपाः । एषामपि सुलभतयाऽवबोधाय टीकाभाष्यचूर्ण्यवचूर्यादिरूपा बह्वयो व्याख्या निबद्धा वर्तन्ते, तैस्तैः ग्रन्थैः परमपूज्याः पूर्वजा महापुरुषाः स्वीयमद्भुतं चमत्कृतिकरश्च ज्ञानं जगति प्रसार्य यशोऽक्षयमर्जयाश्चक्रुः ॥
. यथा यथाऽवसार्पिणीकालः परिवृत्तिमेति तथा तथा तात्कालिकमनुजानां बुद्धेरपि परिवृत्ति, र्जायते. करालव्यालसन्दष्टपुरुषमतेरिव । कुतर्कविषवायुना प्रणुन्नास्ते प्रबलान् सैद्धान्तिकान्निर्णयानधिक्षिपन्तः सरलहृदयानां चेतसि अश्रद्धालक्षणमामयमुत्पादयन्ति । तानेतान्नवयुगीयकुतर्कसरीसृपसन्दष्टान् जनाननूपतापं प्रतिक्रियेव चिकित्सितुं वर्त्मना नव्येनैव सैद्धान्तिकयुक्तीस्तकाश्च सहकारीकृत्यार्षशैल्या चिरन्तनैावर्णितान्यपि. तत्त्वानि बहुधाऽवश्यं व्यवस्थापनीयान्येव । अत एव चैतेऽपि ग्रन्था विदुषां मान्याः प्रमाणभूता एव । ते च ग्रन्थास्सम्मतितर्कस्याद्वादरलाकरेत्याद्यभिधानाः सम्यग्ज्ञानसमुज्वलकरा बृहद्विग्रहा वादलक्षणत्वात्परिकर्मितमतेरेव सुग्राह्या