________________
तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे पादितपुंस्त्वस्त्रीत्वनपुंसकत्वपरिणामवन्तः, लिङ्ग द्विविधं द्रव्यभावभेदात् , यद्रव्यलिङ्गं तदिह नाधिकृतं द्रव्यपरिणामत्वात्, आत्मपरिणामप्रकरणाचेह भावलिङ्गमेव ग्राह्यम् , तच्चान्योऽन्याभिलाषलक्षणं बोध्यम् । यद्वा शरीरशरीरिणोः कथश्चिदभेदेन द्रव्यलिङ्गमादायापि भेदोऽवसेयः॥
चातुर्विध्यमादर्शयतिनारकतिर्यङ्मनुष्यदेवभेदेन चतुर्विधः। इन्द्रियभेदेन पञ्चविधः।
नारकेति । तत्तद्गतिनामकर्मोदयप्रयुक्ततत्तद्भावपरिणाममादायाऽऽत्मनोऽयं विभागः । पञ्चविधत्वं प्रकटयति-इन्द्रियभेदेनेति । जातिनामकर्मोदयापादितैकेन्द्रियादिजाति
परिणामभाक्त्वात्पञ्चविधत्वं जीवानामिति भावः । मनसोऽनिन्द्रियत्वात् बाह्यपञ्चेन्द्रिय10 विधुरस्य समनसो जीवस्याप्रसिद्धेश्च न मन आदाय षड्विधत्वशङ्का कार्येति ॥
अथ षोढा विभजतेपृथिव्यप्तेजोवायुवनस्पतित्रसभेदेन षड्विध इत्येवं विस्तरत
स्त्रिषष्ठ्यधिकपञ्चशतविधोऽपि भवतीति विज्ञेयः।
पृथिवीति। स्थावरान्तर्वर्तिपृथिव्यप्तेजोवायुवनस्पतित्रसनामकर्मोदयजनितपरिणामवन्त 15 एते षड्भेदा वेदितव्याः, तत्र सत्यां पृथिव्यां जलादिकं सुखेन घटादिभिग्रहीतुं शक्य
मिति सुखग्रहणहेतुत्वात् , विमानभवनप्रस्तारादिभावपरिणामेन स्थूलमूर्त्तित्वात्प्रतिनियतजलाग्रुपकारनिवर्तकत्वाच्चादौ पृथिव्याः, विरुद्धभूततेजोव्यवधायकतयाऽऽधेयतया च जलस्य, पृथिव्यप्परिपाकहेतुत्वात्तेजसः, तदुपकारकत्वाद्वायोः, पृथिव्यादिनिमित्तकत्वादनन्तगुणत्वाच्च
वनस्पतेः, इन्द्रियाधिक्यादुपयोगबाहुल्याच्च त्रसस्य ग्रहणम् । इत्थमेव बहुधा विभागस्सम्भव 20 तीत्याहेत्येवमिति, इत्येवंक्रमेणेत्यर्थः । ननु विभागानां परावधिरस्ति नवेत्याशङ्कायामवधिमाहविस्तरत इति, सप्तविधनारकाणां चतुर्विंशतिविधतिरश्चामेकोत्तरशतविधगर्भजमनुष्याणां नवाधिकनवतिविधदेवानां प्रत्येकं पर्याप्तापर्याप्तभेदभाजामपर्याप्तकोत्तरशतविधसंमूछिममनुष्याणाञ्च मेलनया त्रिषष्ट्यधिकपञ्चशतविधोऽपीत्यर्थः, विज्ञेय इति आगमादित्यादिः ॥
अथ प्रथमोक्ते द्वैविध्ये संसारिलक्षणमाह25
सकर्मा संसारी। सकर्मेति । कर्मणा सहितः सकर्मा, कर्मभावयोग्यैः पुद्गलैरविभागेनोपश्लिष्ट इत्यर्थः ।