________________
जीवपरिमाणम् ] न्यायप्रकाशसमलङ्कते
:२७: कर्मोपश्लिष्टत्वं संसारिणां लक्षणं, तच्चैकेन्द्रियादारभ्य आ अयोगिकेवलिनस्सर्वत्रास्तीति न कुत्राप्यव्याप्तिः ॥ तस्य परिमाणमाह
देहमात्रपरिमाणः। देहमात्रेति । देह एव देहमानं, तत्परिमाणं यस्य सो देहमात्रपरिमाणः। यस्य जीवस्य 5 यो देहस्स यावत्परिमाणकस्तावदेव जीवस्यापि परिमाणमित्यर्थः । एवञ्च तत्तच्छरीराकारपरिमाणास्तत्तत्संसारिजीवा न सर्वेषामेकं परिमाणं नियतमिति भावः। एतेन विभुपरिमाणत्वमात्मनः प्रतिक्षिप्तं तत्तदेहावच्छेदेनैव सुखदुःखानुभवात् , सर्वगतत्वेऽदृष्टवत आत्मनस्सर्वत्र सत्त्वेन सर्वत्र तदुपभोगप्रसङ्गात् , एवञ्च यो यद्व्यापित्वेनोपलभ्यमानगुणस्स तत्तुल्यमान इति व्याप्त्या शरीरव्यापित्वमेव, तथा चानुमानं, आत्मा देहपरिमाणः, तद्व्यापित्वे- 10 नोपलभ्यमानगुणत्वादिति । न च मूलव्यापित्वेनोपलभ्यमानकपिसंयोगवतो वृक्षस्य मूलसमानमानत्वाभावेन व्यभिचार इति वाच्यम् , कपिसंयोगस्य मूल एव वृत्तः । न च मूले वृक्ष कपिसंयोग इति प्रतीत्या वृक्षेऽपि तस्य सत्त्वमिति वाच्यम् , स्वाश्रयाश्रितत्वसम्बन्धेनैव वृक्षे वृत्तित्वाभ्युपगमात् , संयोगस्य क्रमभावित्वेन सहभाविपर्यायत्वरूपगुणत्वासम्भवाच्च, न चात्मा विभुर्नित्यमहत्वादाकाशवदिति विभुत्वं सिद्धथतीति वाच्यम् , अप्रयोजकत्वात् , न च यद- 15 पकृष्टं तज्जन्यमिति व्याप्त्याऽऽत्ममहत्परिमाणं यद्यपकृष्टं स्यात्तर्हि जन्यं स्यादित्युकूलस्तर्कोऽ स्त्येवेति वाच्यम् , परमाणुपरिमाणस्याप्यपकृष्टत्वान्नित्यत्वाच्च व्यभिचारेण व्याप्त्यसिद्धेः । न च प्रतिशरीरं परिमाणभेदे परिमाणनाशेनात्मनो नाशः स्यादिति वाच्यमिष्टापत्तेर्विशिष्टरूपेण नाशोत्पादयोरभ्युपगमात् , शुद्धस्वरूपेणैव तस्य नित्यत्वात् । न चापकृष्टमहत्वेन सावयवत्त्वं तस्माच्च कार्यत्वमात्मनः प्रसज्येतेति वाच्यम् , त्रिकालवर्तिन्यात्मनि कार्यत्वस्यासिद्धेः, सर्वथा 20 प्रागसतस्सत्त्वरूपकार्यत्वस्य क्वचिदप्यप्रसिद्धत्वाच्च । न चाकाशे व्यभिचारोऽवगाहनागुणस्य . सर्वाधारताया वा लोकावच्छेदेन सत्त्वेऽपि तत्तुल्यमानत्वाभावादिति वाच्यं तत्राप्यवगाहनागुणस्य सत्त्वादवगाह्यपदार्थाभावादेवावगाहनानुपलम्भात् , न च सर्वगतत्वेऽप्यात्मनः स्वादृष्टनिमित्तकदेहाभावादेवान्यत्र न सुखदुःखोपभोग इति वाच्यम् ,अदृष्टस्य स्वकीयत्वासिद्धेः, ने च स्वात्मनि तस्य समवायात्स्वकीयत्वमिति वाच्यम् , समवायस्यैकत्वेन सर्वगतत्वेन च परकीयादृष्टानामपि स्वात्मनि समवायात् , समवाये मानाभावाचेत्यधिकमन्यग्रन्थेभ्योऽवसेयम् ॥
अथ संसारिणां बहुधा प्रभेदानामुक्तत्वेऽपि माध्यमिकं बोधविशेषाधायकञ्च प्रभेदमधुना वक्ति