________________
जीवप्रभेदाः ]
न्यायप्रकाशसमलङ्कृते । विकल्पबाहुल्यात्, असंसारिणां संसारिपूर्वकत्वात् स्वसंवेद्यत्वाच्चादौ ग्रहणं, संसारिणो हि स्वसंवेद्याः, गत्यादिपरिणामानामनुभूतत्वात् , असंसारिणस्त्वत्यन्तपरोक्षास्तदनुभवस्याप्राप्तत्वादिति ।
कथं संसारिणां बहवो विकल्पा इत्याशङ्कायां संसारिजीवानां प्रभेदप्रदर्शनमुखेन तान् दिङ्मात्रमुपदर्शयति
अत्र चेतनत्वेन जीव एकविधः । अत्रेति । जीवप्रकारनिरूपणप्रसङ्ग इत्यर्थः । जीव इति संसारिजीव इत्यर्थ; असंसायुपेक्षयाऽयं विभागारम्भः, यद्वा जीवमात्रस्य द्विधैव विभागः सम्भवतीति ग्रन्थोऽयं पूर्वेणान्वितः । तथा चात्र यश्चेतनत्वेनैकविधो जीवः स द्विविध इत्यर्थः । यद्यपि ईदृशाभिप्रायोऽत्रेतिवाक्यस्य जीवलक्षणानन्तरं योजने सुस्पष्टो भवति, तथापि जीवनानात्वसाधनार्थमेव- 10 मुपन्यासः कृतः । तत्सिद्धावेव प्रकारभेदनिरूपणसम्भवादिति बोध्यम् ।
तदन्तर्गतः संसारी जीवस्तु संसारित्वेनैकोऽपि त्रसस्थावरभेदेन द्विविध इत्यभिप्रायेणाहत्रसस्थावरभेदेन द्विविधः। पुंस्त्रीनपुंसकभेदेन त्रिविधः ।
त्रसेति । त्रसनामकर्मोदयावृत्तिविशेषास्त्रसा द्वीन्द्रियादयो नतूद्वेजनक्रियाविशिष्टाः गर्भाण्डजमूछितसुषुप्तादीनां त्रसत्वाभावप्रसङ्गात् , स्थावरनामकर्मोदयजनितविशेषाः 15 स्थावराः पृथिवीजलतेजोवायुवनस्पतयः। न तु स्थानशीला वायुतेजोऽम्भसामस्थावरत्वप्रसङ्गात् , अल्पाच्तरत्वात् विशेषोपयोगसम्भवेनाभ्यर्हितत्वात्स्पष्टलिङ्गत्वाच्चादौ त्रसग्रहणम् । द्वैविध्यप्रदर्शनश्चेदमुपलक्षणं तेन समनस्कामनस्कभेदेनापि द्वैविध्यं बोध्यम्, मनःपर्याप्तिलक्षणकरणनिर्वृत्तिमन्तस्समनस्काः द्रव्यभावमनोयुता इति यावत् । तद्रहिता अमनस्काः केवलं भावमनोयुता इति यावत् । प्रकारान्तरेण संसारिणः त्रिधा विभजते पुमिति । तत्तद्वेदोदया- 20
१. एवम्भूतनये हि दश विधप्राणधारी जीवोऽभिमतस्स च संसार्येव, सिद्धस्तु न तथाविधः, असुमान् प्राणीत्यादिव्यपदेशाभावादिति भावः । केवलं भावप्राणवत्त्वात्तेऽपि जीवा इत्याशयेनाह यद्वेति ॥ २. उपलक्षकोऽयं विभागः, तेनेन्द्रियानिन्द्रियसकायाकायसयोग्ययोगिसवेदावेदसकषायाकषायसलेश्यालेश्यज्ञान्यज्ञानिसाकारानाकारभेदेन विभागसम्भवेऽपि न क्षतिरिति ।। ३. एवञ्च प्रथमं द्विभेदमुक्त्वा नानात्वं प्रसाध्य किं सर्वथा जीवा नाना एवेत्याशंकानिवारणाय वस्तूनामेकानेकस्वभावत्वेन तत्प्रदर्शनाय चात्रेतिग्रन्थोक्तिः । जीवत्वादिस्वभावे- 25 नैकोऽपि संसारित्वादितत्तद्धर्मस्वभावत्वेन तथातथाव्यपदिश्यते. एकान्तकस्वभावतायां तेषां वैचित्र्यायोगेन तथातथाभिधाने प्रवृत्तिर्न स्यादेवेति भावः ॥