________________
साधर्म्यनिरूपणम् ]
न्यायप्रकाशसमलङ्कृते
प्रशस्ताभिधानाद्धर्मस्यादौ मोक्षपूर्गमनोपकारित्वाद्वा, तत्प्रतिपक्षित्वे सति स्थितिकारणत्वादधर्मस्य तदनन्तरं ततस्ताभ्यां परिच्छेद्यत्वात् सर्वाधारत्वाश्चाकाशस्य, एभिरमूर्त्तत्वेन साधर्म्यात्ततः कालस्य, तन्निमित्तकनानापरिणामवत्त्वादमूर्त्तप्रतिपक्षित्वाच्च ततः पुद्गलस्य ग्रहणं बोध्यम् | न्यूनाधिक संख्याव्यवच्छेदार्थं प्रत्येकमजीवत्वद्योतनार्थं, धर्मादयो गत्याद्युपग्रहान् प्रति वर्त्तमानास्स्वयमेव तथा परिणमन्ते न परप्रत्ययाधीना तेषां प्रवृत्तिरिति स्वातन्त्र्यं 5 प्रकटयितुं च पञ्चेत्युक्तम् । अजीवा इति । न जीवा अजीवाः, ' नत्रयुक्तमिवयुक्तश्च पदमन्यसदृशाधिकरणे वर्त्तत ' इति न्यायेन भावान्तर एवाजीवशब्दो नाभावमात्रे वर्त्तते, यथाश्वशब्दो गर्दभे वर्त्तते । भावान्तरानात्मकस्याभावमात्रस्याप्रसिद्धत्वाच्च ॥
: १३ :
नन्वनश्वशब्दस्य गर्दभे स्थितिर्युक्ता, जीवत्वसदृशो दरैकशफादिलक्षणसादृश्यसत्त्वाद् ह्रस्वकर्णादितुरगविशेषलक्षणापेक्षया च प्रतिषेधात् । धर्मादौ तु तथाविधसादृश्याभावाज्जीवासाधारणचैतन्यशून्यत्वमात्रेऽजीवशब्दो वर्त्तत इत्याशंकायां साधर्म्यधर्मप्रतिपादनद्वारा सामान्यविशेषात्मकत्वमपि जीवादीनां प्रदर्शयितुमाह-
10
जीवेन सहैतान्येव षड् द्रव्याणि ।
'जीवेनेति । तथा चैषामस्ति सादृश्यं, जीवेन सह द्रव्यत्वं हि सर्वेषां समानो धर्मः, न चात्र द्रव्यत्वमपि प्रतिषेध्यम्, तथा सति गगनकुसुमायमानत्वं धर्मादीनां स्यात् न चैतदिष्टं, 15 जीवासाधारणधर्मप्रतिषेधस्यैवाभिमतत्वात्, तथा च जीवादीनां द्रव्यमिति सामान्यसंज्ञा, विशेषसंज्ञा च जीवो धर्मोऽधर्म इत्यादिरूपेति भावः । एतानीति, धर्मादय इति भावः, विधेयप्राधान्यात्पुद्गलशब्दस्य त्रिलिङ्गत्वाद्वा नपुंसकनिर्देशः । एवशब्दो भिन्नक्रमो द्रव्येयत्ताबोधकषट्पदेन सम्बद्ध्यते, तथा चैतानि षडेवेत्यर्थः । एतानि षडेव किमात्मकानीत्यत आह द्रव्याणीति । बाह्याभ्यन्तरनिमित्तकोत्पादविगमैः स्वपर्यायैर्द्रयन्ते गम्यन्ते तांस्तान् पर्यायान् 20 वा द्रवन्ति गच्छन्तीति द्रव्याणि, बाह्यं निमित्तं द्रव्यक्षेत्रकालभावलक्षणं, आभ्यन्तरन स्वपरिणामविशेषः, तावेतौ मिलित्वोत्पादविगमयोर्हेतू भवतः नत्वन्यतरापाये, तथा चैतानि पर्यायद्रवणाद्द्रव्याणि न तु द्रव्यत्वसम्बन्धात्, द्रव्यत्वसम्बन्धात्पूर्वमेषामद्रव्यत्वापत्तेः, न हि दण्डसम्बन्धात् प्राग् देवदत्तो दण्ड्यासीत् । किन्तु यदा दण्डसम्बन्धस्तदैव । न च तथा प्रकृते द्रव्यताऽभिमता प्राग्द्रव्यत्वसम्बन्धात्, अभिमतत्वे वा तत्सम्बन्धाऽऽनर्थक्यमेव । 25 यद्वा जातिः शब्दार्थ इत्यभ्युपगन्तृद्रव्यास्तिकनयाभिप्रायेण द्रव्यत्वनिमित्ता द्रव्यसंज्ञैतेषां भवतु, तच्च द्रव्यत्वं वस्तुतः कथञ्चिद्भिन्नाभिन्नमिति न कोऽपि दोषः । एवशब्दस्य द्रव्याणीत्यनेनापि सम्बन्धः, तथा च जीवादीनि षट् द्रव्याण्येवेत्यपि लाभेन धर्मादिषु द्रव्यत्वा