________________
: १२: तत्त्वन्यायविभाकरे
[ प्रथमकिरणे ततस्तद्विरुद्धस्याजीवस्य ततो मुक्तिप्रतिद्वन्द्विबन्धकारणत्वेन पुण्यपापाश्रवाणां मुक्तिकारणत्वेन संवरनिर्जरयोस्ततो मुक्तिप्रतिद्वन्द्विनो बन्धस्य ततः परिशेषान्मोक्षस्य निर्देश इति क्रमविन्यासहेतवो बोध्याः । यद्वा जीवसंश्लिष्टकृत्स्नकर्मणां क्षयो हि मोक्षः, सोऽध्यात्मपरिणामविशेष
एवेति प्राधान्याज्जीवस्य, कर्मणामजीवविशेषत्वेन तत्सामान्यज्ञानार्थमजीवस्य, पापात्मकस्यैव 5 कर्मणो विनाशे न मोक्षोऽपि तु पुण्यात्मकस्यापीति दर्शयितुमभ्यर्हितं पूर्वमितिन्यायेन च ततः
पुण्यपापे, पुण्यपापयोः कथं संश्लेषः कथं वा विनाश इति शंकासमाधानाय तत आस्रवस्तत आगच्छत्कर्मनिरोधपूर्वकागतकर्मपरिशाटनस्य सुकरत्वात् संवरनिर्जरे, ततश्च प्रतियोगितया कर्मसंश्लेषरूपबन्धस्य ततः परिशिष्टस्य मोक्षस्य निर्देश इति क्रमे सम्बन्धो विज्ञेयः । ननु
द्वन्द्वोत्तरबहुवचनादेव तद्भटकपदार्थमात्रवृत्तिसंख्याया बोधसम्भवेन नवत्वप्राप्तौ नवग्रहणं न 10 कर्त्तव्यमितिचेद्युक्तमेतत्तथापि प्राधान्येनैकैकस्मिन् तत्त्वस्य प्रख्यापनाय तद्ब्रहणमन्यथा समुदाय
एव तत्त्वप्राप्तिशङ्का स्यात्। आनुकूल्यप्रातिकूल्याभ्यामेतानि नवैव तत्त्वानि मोक्षोपयोगीनीति सूचयितुं वा तद्ग्रहणम् ॥ ननु पुण्यपापयोः कर्मलक्षणयोः पुद्गलात्मकतयाऽजीवेऽन्तर्भावसम्भवेन सप्तैव तत्त्वानीति चेन्मैवं, शुद्धपुद्गलानां पुण्यपापरूपत्वाभावात् किन्तु जीवेनाध्यव
सायविशेषेण परिगृह्य कर्मत्वेन परिणमय्य चात्मसात्कृतानामेव, यावता न ते जीवेन परिगृह्यन्ते 15 तावन्तं कालं ते पुद्गला एव न कर्मरूपा, अपि तु कर्मप्रायोग्या इति सूचयितुं पृथगुल्लेखात्॥
अथ सम्यक्छद्धाविषयीभूततत्त्वानामवान्तरप्रभेदानां बहुत्वात्तेषां सौलभ्येन बोधार्थ तत्तत्तत्त्वनिरूपणावसरे तद्भेदाननुक्त्वाऽत्रैव सामान्यतोऽवान्तरवस्तुनिर्देशात्मकमुद्देशमारचयति
जीवा अनन्ताः ।
जीवा इति । यद्यपि जीवानां सङ्ग्रहप्रकार भेदा अग्रे वक्ष्यन्ते तथापि तेषां संख्याया 20 इयत्ता नास्ति न भवन्त्यसंख्याता अपीत्यभिप्रायेणानन्ता इत्युक्तम् ॥ अथाजीवान विभजते
__ धर्माधर्माकाशकालपुद्गलाः पश्चाजीवाः । धर्माधर्मेति । धर्मादयस्वप्रवचनप्रसिद्धा रूढसंज्ञा ज्ञेयाः, यद्वा स्वतो गतिक्रियापरिणतानां साचिव्याधानाद्धर्मः । तद्विपरीतोऽधर्मः । यस्मिन्नाकाशन्ते स्वैः स्वैः पर्यायैर्द्रव्याणी25 त्याकाशं, स्वयं वाऽऽसमन्तात्काशत इत्याकाशं, परेषामवकाशदानाद्वाऽऽकाशं, मूर्तीनामुप
चयानपचयांश्च कलयति प्रकाशयतीति कालः, पूरणगलनक्रियावत्त्वात् पुद्गला इति क्रियानिमित्तास्संज्ञा बोध्याः, एषां द्वन्द्व इतरेतरयोगलक्षणः, न समाहारस्समुदायस्य प्राधान्यापत्तेः।