________________
क्रमविन्यासहेतवः ]
न्यायप्रकाशटीकायुते तत्र तत्त्वानि जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षा नव ।
तत्रेति तच्छब्देन तत्त्वेष्वास्था सम्यक्श्रद्धति वाक्यस्य परामर्शः, ल्प्रत्ययार्थो घटकत्वम् , तथा च तत्त्वेष्वास्था सम्यश्रद्धेति वाक्यघटकानि तत्त्वानि जीवादिभेदेन नवेत्यर्थः । अत्र तत्त्वशब्दस्य जीवादिभावबोधकस्य सामानाधिकरण्यानुरोधेन जीवादिषूपचरितत्त्वेऽपि विना मत्वर्थप्रत्यययोगमजहल्लिङ्गत्वेन नपुंसकत्वं, जीवादिषु वर्तमानत्वादेव बहुवचनान्त- 5 त्वञ्च । भाववाचकत्वेऽपि वा धर्मधर्मिणोः कथञ्चिदभेदेन तद्बहुत्वप्रयुक्तं बहुवचनान्तत्वम् । जीवादिमोक्षान्तं यावन्द्वः, तत्र कालत्रयेऽपि जीवनाजीवः, तद्विपरीतोऽजीवः, पुनाति प्रीणयत्यात्मानमिति पुण्यं पूयतेऽनेनेति वा पुण्यं सद्वेद्यादिकम् , तत्प्रतिद्वन्द्विरूपं पातिरक्षत्यात्मानं शुभपरिणामादिति पापमसद्वेद्यादिकम् , येन कर्मास्रवति, आस्रवणमात्रं वाऽऽस्रवः, येन संब्रियते संरुध्यते, संरोधनमानं वा संवरः, यया निर्जीयते निरस्यते, निरसनमानं वा 10 निर्जरा, येन बध्यतेऽस्वतंत्रीक्रियते, बंधनमात्रं वा बन्धः, येन मोक्ष्यतेऽस्यते मोक्षणमात्रं वा मोक्षः। एतेषां लक्षणप्रभेदादयश्चाग्रे वक्ष्यन्ते । ननु पुण्यादयो न जीवाजीवाभ्यां पृथग्भूताः, यतः पुण्यपापबन्धाश्रवा अजीवरूपाः, संवरो निवृत्तिरूपो जीवपरिणामः, निर्जरा कर्मपार्थक्यापादकजीवपरिणामः शक्तिरूपः । मोक्षोऽपि समस्तकर्मक्षयरूपः, स्थानविशेषप्राप्तिरूपः, स्वस्वरूपावस्थितिरूपो वा जीवपरिणामविशेष एव । नैते जीवाजीवाभ्यामर्थान्तरभूता इति 15 कथं जीवाजीवाभ्यां द्वैविध्यं परिहृत्य नवधा विभाग आहतः, मैवम् , जीवाजीवयोः परस्परोपश्लेषात्मकसंसारस्य प्रधानहेतूनां तदुपरमस्य वा परिज्ञानाभावे प्राप्यस्य मोक्षस्य परिज्ञानासम्भवेन तत्परिज्ञापनार्थं पृथगुपादानात् । सिद्ध्य सिद्धिभ्यां व्याघातेन पर्यनुयोगानुपपत्तेः । जीवाजीवाभ्यां हि पुण्यादीन्युपलभ्यार्थान्तरतया पर्यनुयोगेऽर्थान्तरत्वस्यात एव सिद्धत्वाद् व्याघातः, अनुपलभ्य पर्यनुयोगेऽनुपलम्भादेव पर्यनुयोगे व्याघात इति, पर्यायार्पणं गौणीकृत्य 20 द्रव्यार्पणप्राधान्येन जीवाजीवयोः कथञ्चिदन्तर्भावेऽपि द्रव्यार्पणं गौणीकृत्य पर्यायार्पणप्राधान्ये तत्र तेषामन्तर्भावासम्भवेन तदपेक्षया पृथगुपादानाच्च । नन्वस्तु तेषां पार्थक्यमेवंक्रमेण विन्यसने तु किं निबन्धनमिति चेदुच्यते, मोक्षशास्त्रं हीदम् , तथा क्रियमाणे मोक्षोपदेशे सावधिकमोक्षशब्दश्रवणाच्छोतुराशङ्का स्वभावत एव जागृयात् कस्य कस्मात् कथं मोक्ष इति, तदपनोदनाय जीवस्य बन्धात् संवरनिर्जराभ्यां मोक्ष इति वाच्यम् । तत्र केन कथं बन्ध इति 25 जागृतेऽनुयोगेऽजीवेनाऽऽस्रवद्वारा बन्ध इत्यभिधानीयम् । तत्र कियन्तोऽजीवाः किं सर्वैर्बन्ध इति पृच्छायां, पञ्चधाजीवाः, पुण्यपापात्मकपुद्गलविशेषैरेव बन्ध इति समाहिते सामान्यतो बन्धमोक्षकारणेषु हेयोपादेयत्वबुद्धिः सुलभतया स्यादतो मुक्त्याश्रयत्वेन प्राधान्याज्जीवस्य
१. हैमशब्दानुशासने तु ( सप्तम्याः ७ । २ । ९४ ) इत्यनेन त्रप् । ।