________________
तत्त्वन्यायविभाकरे
[ प्रथमकिरणे पौरुषेयो जीवस्य शक्तिविशेषो यामासाद्यायं सम्यग्दर्शनीत्युच्यते । नतु सम्यक्त्वमोहनीयकर्मपुद्गलद्रव्यं, आत्मपरिणामविशेषस्यैव मोक्षकारणत्वेन विवक्षितत्वात् । तत्रापनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकं सम्यक्त्वम् , केवलजीवपरि
णामरूपं पुञ्जत्रयस्य सर्वथा क्षयादुपशमाच जातं क्षायिकमौपशमिकञ्चापौद्गलिकम् ॥ 5 तथा नैश्चयिकव्यावहारिकभेदेन सम्यक्त्वं द्विविधम् , तत्र यद्देशकालसंहननानुरूपं
यथाशक्ति यथावत्संयमानुष्ठानरूपमविकलं मुनिवृत्तं तन्नैश्चयिकं सम्यक्त्वम्, व्यावहारिक तु न केवलं उपशमादिलिङ्गगम्यश्शुभात्मपरिणामः, किन्तु सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादिः । तदपि पारम्पर्येण शुद्धचेतसामपवर्गहेतुर्भवति, एवं त्रिचतुःपञ्चदशविधमपि
तद्भवतीति बोध्यम् ॥ न च सम्यग्दर्शनं विहाय सम्यक्श्रद्धा कथमुक्तेति वाच्यम् । तथो10 क्तावपि श्रद्धाया एवाभिप्रेतत्वात् । न च तत्त्वपदेन न जीवादीनां ग्रहणं भाववाचित्वा
दिति वाच्यम् , भावस्य तदभिन्नत्वेनाध्यारोपाद् यथा ज्ञानमेवात्मेति । न च तद्यथेष्वास्थे. त्येवोच्यतामिति वाच्यं तत्त्वग्रहणमन्तरेण मिथ्यावादिप्रणीतेषु सर्वार्थेषु श्रद्धाया सम्य
श्रद्धात्वापत्तेः । तथा च तत्त्वाव्यभिचारिण्यभिरुचिः सम्यक्श्रद्धेति फलितार्थः । न
चाभिरुचिरभिलाषा, सा चात्मनो बहुश्रुतत्वप्रख्यापनार्थमधीताईतदर्शनेषु मिथ्यादृष्टिष्व15 प्यस्तीति वाच्यं, आत्मनः पौरुषेयशक्तिविशेषस्यैवाभिरुचिपदेन विवक्षितत्वात् , अन्यथा
लोभात्मिकाया अभिलाषाया क्षीणमोहकेवलिन्यभावेन तत्र सम्यक्त्वाभावप्रसङ्गात् , तस्याश्च शक्तेः यथार्हदागमं रागाद्यनुद्रेकात् संवेगात् विषयानभिष्वङ्गात् सर्वप्राणिषु कृपोदयादास्तिक्यबुद्धेश्चाभिव्यज्यमानत्वात् । इयञ्च शक्तिविशेषलक्षणाभिरुचिरान्तरश्रद्धेत्युच्यते,
तदुपकारितया तत्प्ररूपणप्रवणसूत्रशब्दराशिरपि सम्यक्श्रद्धानमुच्यते, तदुत्पादोपकरणतया 20 च कर्मविशेषः सम्यक्त्वाख्यां लभते । इयं सर्वद्रव्यभावविषयाऽभिरुचिरूपा सम्यकश्रद्धै
करूपापि परोपदेशापरोपदेशरूपबाह्यनिमित्तभेदतो द्वैविध्यमश्नुते, उभयविधायामपि तस्यां क्षयक्षयोपशमोपशमसास्वादनवेदकरूपनिमित्तभेदतश्च भेद आन्तरोऽवसेयः । तत्र परोपदेश उपलक्षकः, आगमप्रतिमादर्शनशिक्षानिमित्तादीनाम् , तथा च परसहकारेण तत्त्वाव्यभि
चारिजीवादिपदार्थाभिरुचिरधिगमसम्यक्श्रद्धा, यथाप्रवृत्त्यपूर्वानिवृत्तिकरणमात्रसहकारेण 25 तत्त्वाव्यभिचारिजीवादिपदार्थाभिरुचिनिसर्गसम्यक्श्रद्धेति च विज्ञेया ॥
ननु तत्त्वेष्वास्था सम्यक्श्रद्धेत्युक्तं, तत्र कानि तत्त्वानि, येष्वभिरुचिस्सम्यक्छ्रद्धा भवेत् कियन्ति च तानि, यतस्तदियत्ताज्ञानाभावात्सम्यक्श्रद्धाऽपूर्णा भवेदित्याशंकायामाह