________________
तत्त्वन्यायविभाकरे
[ प्रथमकिरणे योगस्य व्यावृत्तिरिति । एतेन च जीवादीनां द्रव्यत्वं सामान्यविशेषात्मकत्वमुत्पादव्ययधौव्यात्मकत्वं गुणपर्यायवत्त्वं तत्त्वञ्च साधयं लभ्यत इति भावः ॥
ननु षडिति पदेनैवकारं संयोज्य षडेव द्रव्याणीत्युक्तम् , तन्न युक्तं नैयायिकादिभिः पृथिवीजलतेजोवायुदिङ्मनसां द्रव्यतया गुणकर्मसामान्यविशेषसमवायाभावानाञ्च पदार्थ5 तयाऽभ्युपगतानां सत्त्वादित्याशङ्कायामाह
दर्शनान्तराभिमतपदार्थानामत्रैवान्तर्भावः । दर्शनान्तराभिमतेति। नैयायिकादीनां दर्शनान्तरेषु तैरभ्युपगतानां पृथिव्यादिपदार्थानां षट्स्वेतेष्वेवान्तर्भाव इत्यर्थः, तथाहि पुद्गला विचित्रशक्तिमन्तस्तथा च शक्तिवैचित्र्येण
परिणामवैचित्र्यात्पृथिवीजलतेजोवायुरूपेण परिणमन्त इति सर्वथा तेषां विभिन्नजातीयत्त्वे 10 मानाभाव एव, तथा दिगपि नास्त्यतिरिक्ता रुचकप्रदेशावधिकविशिष्टाकाशप्रदेशैः सूर्योदया
द्याश्रयेणाकाशप्रदेशैर्वा प्राच्यादिव्यवहारोपपत्तेः । द्रव्यमनसोऽपि चक्षुरादिवत्पुद्गलविशेषात्मकत्वमेव । अथ गुणादीनपि पराभ्युपगतानन्तर्भावयति
___गुणपर्यायसामान्यविशेषादयष्षद्वेव सङ्गच्छन्ते ।
गुणेति। गुणो रूपादिः। पर्यायः कर्म क्रमभावित्वात् । आदिना समवायाभावयोH15 हणम् । तथा च गुणकर्मसामान्यानि द्रव्यस्य पर्याया एव । विशेषस्त्वप्रामाणिक एव ।
समवायस्तु नास्त्येव, कथश्चित्तादात्म्यलक्षणसम्बन्धेनैव गुणादिविशिष्टबुद्धथुपपत्तेः । अभावोऽपि नाधिकरणाद्रव्यात् सर्वथा भिन्नः, तादृशे प्रमाणाभावात् , एवश्च षडेव द्रव्याणि नाधिकानि नवा न्यूनानीति भावः ।।
नन्वेवमपि षडेव द्रव्याणीत्यनुपपन्नं तेभ्यो भिन्नानां पुण्यपापादीनां सत्त्वात् , उक्तं हि पूर्व 20 'तत्र तत्वानि जीवाजीवपुण्यपापास्रवसंवरनिर्जराबन्धमोक्षा नवे' ति इत्याशङ्कायामाह
. पुण्यादितत्त्वानामप्ययमेव न्यायः।
पुण्यादितत्वानामपीति । अयमेव न्याय इति, उक्तदिशा षट्सु द्रव्येष्वेवान्तर्भावः करणीय इति भावः, पंक्तिरेषा व्याख्यातप्रायैव ।
स्वयं मूलकारोऽन्तर्भावमभिधत्ते
तत्र पुण्यपापाश्रवबन्धानां पुद्गलपरिणामत्वात्पुद्गलेषु, संवरनिर्जरामोक्षाणां जीवपरिणामत्त्वाजीवेष्वन्तर्भावः ।
25